________________
४०८
षष्ठीविभक्तिविचारः । त्वं वाक्यार्थः । गतौ यथा तीर्थस्य दयते इत्यत्र तीर्थकमंकगमनाश्रयत्वं वाक्यार्थः । रक्षणे यथा दौनस्य दयते इत्यत्र दौनकर्मकरक्षणाश्रयत्वं वाक्यार्थः । ईश ऐश्वर्य इतौशधातोरैश्वर्यमर्थस्तच्च स्वत्वफलनिरूपकं स्वामित्वमैश्वर्यकर्मणि षष्ठो यथा सर्पिष ईष्ट इत्यत्र सर्पिवत्तिस्वत्वनिरूपकत्वाश्रयच वाक्यार्थः । एवं ग्रामस्य देशस्य नगरस्य पौरस्य वा ईष्टे दूल्य दाबप्यनया रौत्यान्त्रयो बोध्यः । कुञः कर्मणि षष्ठौं ज्ञापयति । "कञः प्रतियत्ने” इति सूत्रम् । कुञः कर्मणि षष्ठो विभक्तिर्भवति प्रतियत्ने गम्यमाने इत्यर्थकं सतो गुणान्तराधानम्पतियत्न- - इति काशिका | एधोदकस्योपस्कुरुते पाचक इत्यत्र षष्ठयाः कर्मत्वमर्थों धात्वर्थ उपकरणेऽन्वेति उपकरणं संन्निधापनं तथा चैधोदककर्मसंनिधापनप्रयत्नाश्रयः पाचक अत्यन्वयबोध: । तदनन्तरं सत: पाकस्य क्षिप्रसम्पत्तिरूपगुणाधाय कमेधोदकसन्निधापनमिति वैयचनिको बांध इति वृत्तिखरसादवगम्यते । वस्तुतस्त प्रतियत्नो द्वितीययत्नः स चोपकारस्वरूप उपपूर्वकस्य करोतेरथस्तत्कर्मणि षष्ठौ विभक्तिर्भवतीति सूवार्थः । अत एव उपातियत्नेति सूवेगा विहितस्य सुट आगमत्वानिरर्थकस्य धात्वथ प्रतियनद्योतकत्वमुक्तम् । उपकारश्च विविधः उप समाप करगां स्थापनं सन्निधापनमिति यावत् । इत्येक एतस्यैव प्रतियत्नस्य द्योतकः सुडागमः । हितोयस्त दुःखनाशसुखान्यतरानुकूलव्यापारम्वरूप एतस्मिप्रतियत्ने विवक्षिते न सुडागमः आद्यो यथा एधोदकस्योपस्कुरुते पाचकः इत्यत्रान्वयबोध: पूर्ववदेव । हिवी
Aho! Shrutgyanam