________________
विभक्त्यर्थनिर्णये ।
४०९ यो यथा दोनम्योपकुरुते कारुणिक इत्यादी षष्ठ्या आधयत्वस्वरूपं कर्मत्वं दुःखनाशादौ फलेन्वेति तथा च दोनत्तिदुःखनाशानुकूलप्रयत्नाश्रयः कारुणिक इत्यग्वयबोधः क्व चिव्यतिक्रियाऽपि प्रतियत्नः प्रतिक्रिया च क्रियाविघातक क्रिया सा च प्रतिपूर्वकस्य करोतेरथः । तत्कर्मण्यपि षष्ठी यथा “गुरुविप्रतपस्विटुगतानां प्रतिकुर्वीत भिषकस्खभेषजैः" इत्यादौ प्रतिक्रिया क्रियाऽभिघातकक्रिया धात्वर्थस्तत्र गुर्वादिकमन्वस्य षष्ठयन्तार्थस्यान्वय इति क्रियाविशेषणस्य कर्मत्वादुपक्रियाविशेषणेऽपि षष्ठौ यथा स हि तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरीतोत्यादौ अत्र स्वात्मसाक्षात्काराभिन्नोपकारप्रयत्नाश्रयः स इत्यन्वयदोधः । रुजार्थानां कर्मणि षष्ठौं ज्ञापयति । " रुजार्थानां भाववचनानामज्वरे: " इति सूत्रं भाववचनानां भावकट काणां रुजार्थानां ज्वरिवर्जितानां कर्मणि षष्ठी विभक्तिर्भवतीत्यर्थक चौरस्य रुजति रोग इत्यादौ रुजेदखामुकूलव्यापारोऽर्थः तिङ: प्रयोजकत्वमर्थः षष्ठया आधयत्वस्वरूपं कर्मत्वमर्थः पित्तादिविकारो रोग: तथा च चौरत्तिदुःखानुकूलधातुविकारस्वरूपव्यापारप्रयोजकः पित्तादिविकार इत्यन्वबोधः । एवं चौरस्यामयस्थामय इत्यादावस्यन्वयो बोध्यः रुजार्थानामित्युपादानात् “एति जीविनमोनन्दो नरं वर्षशतादपि इत्यादौ कर्मणि न षष्ठी भाववचनानामित्युपादानात् नदीकूलानि रुजतोत्यादौ कर्मणि न षष्ठी अत्र रुजे शानुकूलो व्यापारोऽर्थः अज्वरेरित्युपादानात् चौरं ज्वरयति रोग इत्यादी
Aho! Shrutgyanam