Book Title: Tirth Yatra Sanghni Mahatta
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 182
________________ [१५] अस्त्यानन्दपुरं फलर्द्धिनगरी श्रीसत्यनाम्ना पुरं, नासिक्यं भृगुकच्छमङ्गलपुरं सोपारकं विश्रुतम् । मोढेर मथुराऽणहिल्लनगरं श्री-स्तंभनं पावनं, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥७॥ रख्यातोऽष्टापदपर्वतो गजपदः सम्मेतशैलाभिधः, श्रीमान् रैवतकः प्रसिद्धमहिमा शत्रुञ्जयो मण्डपः । वैभारः कनकाचलोऽबुंदगिरिः श्रीचित्रकूटादयः, तत्र श्री-ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥८॥ देवाः श्री-ऋषभाजितप्रभृतयः श्री-पुण्डरीकादयः, श्रीमन्तो भरतेश्वरप्रभृतयः श्री-बाहुवल्यादयः । श्रीमद्रामयुधिष्ठिरप्रभृतयः प्रद्युम्नशाम्बादयः, श्रीमद्गौतममुरव्यसाधुयतयः कुर्वन्तु वो मङ्गलम् ॥९॥ यस्मात् तीर्थमिदं प्रवृत्तिमगमत् श्रीमत्सुधर्मो गुरुः, धन्यो धन्यमुनिः सुकोशलमुनिः श्रीशालिभद्राभिधः । मेतार्योऽथ दृढपहारिसुयतिमेघो दशार्णाभिधः, श्री-श्रीमत्करकण्डमुरव्ययतयः कुर्वन्तु वो मङ्गलम् ॥१०॥ श्रीजम्बूः प्रभवप्रभुर्गतभवः शय्यंभवः श्रीयशोभद्रारव्यः श्रुतकेवली च चरमः श्रीभद्रबाहुर्गुरुः । शीलस्वर्णकषोपलः सुविमलः श्रीस्थूलिभद्रः प्रभुः, सर्वेऽप्यायमहागिरिप्रभृतयः कुर्वन्तु वो मङ्गलम् ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264