Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 53 // श्रुतस्कन्ध:१ प्रथममध्ययन समयः, प्रथमोद्देशक: सूत्रम् 20-25 दर्शनाङ्गीकारात् मोक्षः इदं ते संभावयन्ति यथा- इदं अस्मदीयं दर्शनं आपन्ना आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वादेकवचनं सूत्रे कृतम्, तथाहि-पञ्चभूततज्जीवतच्छरीरवादिनामयमाशयः- यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुञ्चननाग्न्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः- तपांसि यातनाश्चित्राः संयमो भोगवश्चनम्। अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यत॥१॥इति, साङ्ख्यादयस्तु मोक्षवादिन एवं संभावयन्तियथा येऽस्मदीयं दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षमोक्षमास्कन्दन्तीत्युक्तं भवति // 19 // इदानीं तेषामेवाफलवादित्वाविष्करणायाह तेणावि संधिं णच्चा णं, न ते धम्मविओजणा / जे ते उ वाइणो एवं, न ते ओहंतराऽऽहिया ॥सूत्रम् 20 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा / जे ते उ वाइणो एवं, न ते संसारपारगा। सूत्रम् 21 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते गब्भस्स पारगा। सूत्रम् 22 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते जम्मस्स पारगा॥सूत्रम् 23 // ते णावि संधिं णच्चा णं, न ते धम्मविओ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा। सूत्रम् 24 // ते णावि संधिंणच्चा णं, न ते धम्मविओजणा / जे ते उ वाइणो एवं, न ते मारस्स पारगा॥ सूत्रम् 25 // ते- पञ्चभूतवाद्याद्याः नापि नैव सन्धिं छिद्रं विवरम्, स च द्रव्यभावभेदावधा, तत्र द्रव्यसन्धिः कुड्यादेः भावसन्धिश्च ज्ञानावरणादिकर्मविवररूपः तमज्ञात्वा ते प्रवृत्ताः णमिति वाक्यालङ्कारे, यथा आत्मकर्मणोः सन्धिर्द्विधाभावलक्षणो // 53 //