Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 503
________________ पञ्चदश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 471 / / धर्माराधक: सर्वाविनयास्पदभूतः स्त्रीप्रसङ्गो यैः परित्यक्तस्त एवादिमोक्षा:- प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस्य प्रधान- श्रुतस्कन्धः 1 वाचित्वात्, न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो नावकाङ्गन्ति नाभिलषन्ति: मध्ययनं असंयमजीवितं अपरमपि परिग्रहादिकं नाभिलषन्ते, यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षकताना जीवितं / आदानीयम्, दीर्घकालजीवितं नाभिकाङ्क्षन्तीति // 9 // 615 // किंचान्यत्- जीवितं असंयमजीवितं पृष्ठतः कृत्वा अनादृत्य प्राणधारण- सूत्रम् 9-12 (615-618) लक्षणं वा जीवितमनादृत्य सदनुष्ठानपरायणाः कर्मणां ज्ञानावरणादीनां अन्तं पर्यवसानं प्राप्नुवन्ति, अथवा कर्मणा सदनुष्ठानेन / आवरणक्षयात् जीवितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षाख्यमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि सर्वज्ञः कर्मणा- विशिष्टानुष्ठानेन मोक्षस्य संमुखीभूता- घातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्याभिमुखीभूताः, क एवंभूता इत्याह-येविपच्यमानतीर्थकृन्नामकर्माणः समासादितदिव्यज्ञाना मार्ग मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं अनुशासति | सत्त्वहिताय प्राणिनां प्रतिपादयन्ति स्वतश्चानुतिष्ठन्तीति // 10 // 616 // अनुशासनप्रकारमधिकृत्याह- अनुशास्यन्तेसन्मार्गेऽवतार्यन्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनं- धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषुक्षित्युदकवत् स्वाशयवशादनेकधा भवति, यद्यपि च अभव्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारिन यथावत् / परिणमति, तथा चोक्तं- सद्धर्मबीजवपनानघकौशलस्य, यल्लोकबान्धव! तवापि खिलान्यभूवन् / तन्नाद्भुतं खगकुलेष्विह तामसेषु, 471 // सूर्यांशवो मधुकरीचरणावदाताः॥१॥ किंभूतोऽसावनुशासक इत्याह- वसु- द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते Oऽन्तं पर्यन्तं सर्व० (प्र०)। 0 क्रियया वा उत्पन्न० (प्र०)।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520