Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 504
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 472 // यस्यासौ वसुमान्, पूजन-देवादिकृतमशोकादिकमास्वादयति-उपभुङ्क्त इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य श्रुतस्कन्ध:१ समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशङ्कयाह- न विद्यते आशयः- पूजाभिप्रायो यस्यासावनाशयः, यदिवा पञ्चदश मध्ययन द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनास्वादकोऽसौ, तद्गतगााभावात्, सत्यप्युपभोगे 'यतः' प्रयतः सत्संयम आदानीयम्, वानेवासावेकान्तेन संयमपरायणत्वात्, कुतो? यत इन्द्रियनोइन्द्रियाभ्यां दान्तः, एतद्गुणोऽपि कथमित्याह- दृढः संयमे, सूत्रम् 9-12 (615-618) आरतं- उपरतमपगतं मैथुनं यस्य स आरतमैथुन:- अपगतेच्छामदनकामः, इच्छामदनकामाभावाच्च संयमे दृढोऽसौ भवति, आवरणक्षयात् आयतचारित्रत्वाच्च दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाच्च प्रयतः, प्रयत्नवत्त्वाच्च देवादिपूजनानास्वादकः, तदनास्वा- सर्वज्ञः दनाच्च सत्यपि द्रव्यत: परिभोगे सत्संयमवानेवासाविति // 11 // 617 // अथ किमित्यसावुपरतमैथुन इत्याशङ्कयाह धर्माराधकः नीवार:-सूकरादीनां पशूनां वध्यस्थानप्रवेशनोपायभूतों भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनम्, यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतोनीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्त्वो नलीयेत न स्त्रीप्रसङ्गं कुर्यात्, किंभूतः सन्नित्याहछिन्नानि- अपनीतानि स्रोतांसि-संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा अनाविलः अकलुषोरागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा-विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो वा सदा सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विधश्च कर्मविवरलक्षणं भावसन्धिं अनीदृशं / अनन्यतुल्यं प्राप्तो भवतीति // 12 // 618 // किञ्च (r) प्रवेशनभूतो (मु०)। 0 मतिनीय (प्र०)। // 472 //

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520