Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 514
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 482 // श्रुतस्कन्धः। षोडशमध्ययन गाथा, सूत्रम् 1 (632) अगारगुण वर्णनम् समिए सहिए सया जएणो कुज्झेणोमाणी माहणेत्ति वच्चे॥२॥सूत्रम् 1 // ( // 632 // ) अथे त्ययंशब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तुबुध्येतेत्यनेनाभिहितम्, अत आद्यन्तयोर्मङ्गलत्वात्सर्वोऽपि श्रुतस्कन्धो मङ्गलमित्येतदनेनावेदितं भवति / आनन्तर्ये वाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते। अथानन्तरमाह- भगवान् उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा- एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः ससाधुर्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यत्वात् द्रव्यं च भव्ये इति वचनात् रागद्वेषकालिकापद्रव्यरहितत्वाद्वान जात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः- शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ताध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुर्माहनो ब्राह्मण (ग्रन्थाग्रं 8000) इति वा वाच्यः, तथा श्राम्यति-तपसा खिद्यत इतिकृत्वा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:- अन्तःकरणं यस्य स. समनाः सर्वत्र वासीचन्दनकल्प इत्यर्थः, तथा चोक्तं-णत्थि य सि कोइ वेसो इत्यादि। तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं वाच्यः साधुरिति / तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः, ससाधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः / तथा सबाह्याभ्यन्तरग्रन्थाभावान्निर्ग्रन्थः। तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च सन् निर्ग्रन्थ इति वाच्य इति / एवं भगवतोक्ते सति प्रत्याह तच्छिष्य:- भगवन्!- भदन्त! भयान्त! भवान्त! इति वा योऽसौदान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थ इति वा वाच्यः तदेतत्कथं? यद्भगवतोक्तं ब्राह्मणादि® नास्ति तस्य कोऽपि द्वेष्यः / ॐ भिक्षुरिति (मु०)। (c) कायश्च (स) नि० (मु०)। 0 इति वाच्यः (मु०)। // 482 //

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520