Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रुतस्कन्धः१ षोडश मध्ययनं श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| || 485 // नर्थहेतुभूतादुभयलोकविरुद्धाद्वा सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् / यश्चैवंभूतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः॥२॥६३३॥ साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अत्रापी'ति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्तिहेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न गाथा, उन्नतोऽनुन्नतः, तत्र द्रव्योन्नतः शरीरेणोच्छ्रितः भावोन्नतस्त्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते। विनीता सूत्रम् 2-3 (633-634) त्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालङ्कतोगुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वाद अगारगुण प्रह्वोभवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थः। तथा दान्तः इन्द्रियनोइन्द्रियाभ्याम्, वर्णनम तथा शुद्धात्मा शुद्धद्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायश्च परित्यक्तदेहश्च यत्करोति तदर्शयति- सम्यक् विधूय अपनीय विरूपरूपान्नानारूपाननुकूलप्रतिकूलान्- उच्चावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधूननं तु यत्तेषांक सम्यक्सहनं- तैरपराजितता, परीषहोपसर्गाश्च विधूयाध्यात्मयोगेनसुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धं-अवदातमादानंचारित्रं यस्य स शुद्धादानो भवति / तथा सम्यगुत्थानेन- सच्चारित्रोद्यमेनोत्थितः तथा स्थितो- मोक्षाध्वनि व्यवस्थितः परीषहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा संख्याय परिज्ञायासारतां संसारस्य दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्लभत्वं चावाप्य च सकलांसंसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः- गृहस्थैरात्मार्थं निर्वर्तितमाहारजातं तैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः॥३॥ 634 // तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा 7 विरोधिनः सावद्या० (प्र०)। 0 शब्दप्रवृत्ति० (प्र०)। Mx
Loading... Page Navigation 1 ... 515 516 517 518 519 520