Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ :0888 श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 479 // ॥अथ षोडशमध्ययनं गाथाख्यम्॥ श्रुतस्कन्ध:१ षोडशउक्तं पञ्चदशमध्ययनम्, साम्प्रतं षोडशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषु येऽर्था मध्ययन अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा-प्रथमाध्ययने / गाथा, स्वसमयपरसमयपरिज्ञानेनसम्यक्त्वगुणावस्थितोभवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारकर्म विदारयन् गाथानिक्षेपाः साधुर्भवति तथा तृतीयाध्ययने यथोक्तानुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीषहस्य दुर्जयत्वात्तज्जयकारीति पञ्चमे तु नरकवेदनाभ्यः समुद्विजंस्तत्प्रायोग्यकर्मणो विरतः सन्साधुत्वमवाप्नुयात् षष्ठे तु यथा श्रीवीरवर्धमानस्वामिना कर्मक्षयोद्यतेन चतुर्जानिनाऽपि संयम प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञात्वा तत्परिहारोद्यतेन सुशीलावस्थितेन भाव्यं अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तुयथोक्तं क्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारित्राख्यं सन्मार्गं प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सगुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति / तदेवमनन्तरोक्तेषु पञ्चदशस्वध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य 1 // 479 // चत्वार्युपक्रमादीन्यनुयोगद्वाराणि भवन्ति / तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव सम्बन्धप्रतिपादनेनैवाभिहितः। नाम * यथानुकूल० (मु०)। 0 समुद्विजमानस्त० (मु०)। 0 परिहारिणा (प्र०)।
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520