Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 477 // तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्त: सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः॥ 21 // 627 // अपिच- श्रुतस्कन्धः१ पण्डितः सदसद्विवेकज्ञो वीर्यं कर्मोद्दलनसमर्थं सत्संयमवीर्यं वा लब्ध्वा अवाप्य, तदेव वीर्य विशिनष्टि- निःशेषकर्मणो। पञ्चदश मध्ययन निर्घाताय निर्जरणाय प्रवर्तकं पण्डितवीर्यम्, तच्च बहुभवशतदुर्लभं कथञ्चित्कर्मविवरादवाप्य धुनीयाद् अपनयेत् पूर्वभवेष्वनेकेषु / आदानीयम्, इयत्कृतं- उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् नवं च अभिनवं चावनिरोधान्न करोत्यसाविति // 22 // 628 // सूत्रम् 21-25 (627-631) किञ्च- महावीरः कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्यात्वाविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ न वीरोन करोति न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च कर्मकर्ता यन्मतमष्टप्रकारं कर्म तत्सर्वं हित्वा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखी भूतोऽसाविति // 23 // 629 // अन्यश्च-'जम्मय'-8 मित्यादि, सर्वसाधूनां यत् मतं अभिप्रेतं तदेतत्सत्संयमस्थानम्, तद्विशिनष्टि-शल्यं-पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयतिछिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः साधयित्वा सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन्, ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकत्वमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति // 24 // 630 // सर्वोपसंहारार्थमाह- पुरा पूर्वस्मिन्ननादिके काले बहवो महावीराः कर्मविदारणसहिष्णवः अभूवन् भूताः तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सुव्रता: सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः कुर्वन्ति करिष्यन्ति चेत्याह- यस्य दुर्निबोधस्य- अतीव दुष्प्रापस्य(मार्गस्य)ज्ञानदर्शनचारित्राख्यस्य अन्तं परम-2 काष्ठामवाप्य तस्यैव मार्गस्य प्रादुः प्राकाश्य, तत्करणशीलाः प्रादुष्कराः स्वतः सन्मार्गानुष्ठायिनोऽन्येषां च प्रादुर्भावकाः (r) सिद्धिमवा० (प्र०)10 भूताः सत्सं० (मु०)। 0 प्राकाश्यम्, (मु०)। // 477 //
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520