Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 507
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 475 // श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 17-20 (623-626) नाऽमनुष्येषु मोक्षः स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह- आर्हते प्रवचने इति / इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वागणधरादिभिराख्यातम्, तद्यथा-युगसमिलादिन्यायावाप्तकथञ्चित्कर्मविवरात् योऽयं शरीरसमुच्छ्यः सोऽकृतधर्मोपायैरसुमद्भिर्महासमुद्रप्रभ्रष्टरत्नवत्पुनर्दुर्लभो भवति, तथा चोक्तं- ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥१॥इत्यादि॥१७॥६२३॥ अपिच- इतः अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो बोधिः सम्यग्दर्शनावाप्तिः सुदुर्लभा उत्कृष्टतः अपार्धपुद्गलपरावर्तकालेन यतो भवति, तथा दुर्लभादुरापा तथाभूता-सम्यग्दर्शनप्राप्तियोग्या अर्चालेश्याऽन्तःकरणपरिणतिरकृतधर्मणामिति, यदिवाऽर्चा-मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेन्द्रियसामग्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थं धर्मार्थं व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः, तेषां तथाभूतार्चा सुदुर्लभा भवतीति // 18 // 624 // किञ्चान्यत्- ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगद्दष्टारः त एवंभूताः परहितैकरताः शुद्धं अवदातं सर्वोपाधिविशुद्धं धर्म आख्यान्ति प्रतिपादयन्ति स्वतः समाचरन्ति च प्रतिपूर्णं आयतचारित्रसद्भावात्संपूर्णं यथाख्यातचारित्ररूपं वा अनीदृशं अनन्यसदृशं धर्मं आख्यान्ति अनुतिष्ठन्ति च। तदेवं अनीदृशस्य अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं- सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो। जन्मकथा?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत? इति, तथोक्तं - दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः / कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥॥१९॥ 625 // किंचान्यत्- कर्मबीजाभावात् ®शरीरमेव पुद्गलसंघातत्वात्समुच्छ्यः 'उस्सय समुस्सएवा' इति वचनात् समुच्छ्रय एव वा देहवाचकः शरीरशब्दस्तु विशेषणम्। वान्तसम्यक्त्वधर्मस्यैतावताऽवश्यं सम्यक्त्वस्य पुनः प्राप्तेः। O०मर्थं व्याकु० (मु०)। 0 अनन्यसदृशज्ञान (प्र०)। 9 तथा चोक्तं (प्र०)। // 475 //

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520