Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 446 // ग्रन्थः , गुणाः कथं कथमप्यन्तं गच्छेद्?, इत्येवंभूतां विचिकित्सां गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काञ्चिच्चित्तविप्लुतिं देशसर्वगतां श्रुतस्कन्धः१ तांकृत्स्नांगुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति // 6 // 585 // किञ्चान्यत्-स गुर्वन्तिके चतुर्दश मध्ययनं निवसन् क्वचित् प्रमादस्खलितः सन् वयःपर्यायाभ्यां क्षुल्लकेन-लघुना चोदितः प्रमादाचरणं प्रति निषिद्धः, तथा वृद्धेन वा वयोऽधिकेन श्रुताऽधिकेन वा अनुशासितः अभिहितः, तद्यथा- भवद्विधानामिदमीहक् प्रमादाचरणमासेवितुमयुक्तम्, तथा सूत्रम् 5-6 (584-585) रत्नाधिकेन वा प्रव्रज्यापर्यायाधिकेन समवूयसा वा अनुशासितःप्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन निर्गन्थानां द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत एवं चोदित इति एवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापितदनुशासनं सम्यक् स्थिरतः- अपुनःकरणतयाऽभिगच्छेत्- प्रतिपद्येत, चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा नीयमान उह्यमानोऽनुशास्यमानः कुपितोऽसौनसंसारार्णवस्य पारगो भवति। यदिवाऽऽचार्यादिना सदुपदेशदानतः / प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति॥७॥५८६॥साम्प्रतं स्वपक्षचोदनानन्तरतः (रं) स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितोव्युत्थितः- परतीर्थिको गृहस्थोवा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा- नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितःसंयमाद्भष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन- अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् चोदित आगमं प्रदाभिहितः, तद्यथा- नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना क्षुल्लकेन लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता 0 केन श्रुताधिकेन वा सम० (मु०)। 0 मत इत्येवं चोदित इत्येव० (मु०)। // 446 //
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520