Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 466 // आवरणक्षयात् धर्माराधक: स्याप्यभावात्कपिलोऽपि न सर्वज्ञ इति, तथा क्षीरोदकवदभिन्नयोर्द्रव्यपर्याययोर्भेदेनाभ्युपगमादुलूकस्यापि न सर्वज्ञत्वम् / श्रुतस्कन्ध:१ असर्वज्ञत्वाच्च तीर्थान्तरीयाणांमध्ये न कश्चिदप्यनीदृशस्य- अनन्यसदृशस्यार्थस्य द्रव्यपर्यायोभयरूपस्याख्याता भवतीत्यतो पञ्चदश मध्ययनं हन्नेवातीतानागतवर्तमानत्रिकालवर्तिनोऽर्थस्य स्वाख्यातेतिन तत्र तत्रेति स्थितम् ॥२॥६०८॥साम्प्रतमेतदेव तीथिकानाम आदानीयम्, सर्वज्ञत्वमर्हतश्च सर्वज्ञत्वं यथा भवति तथा सोपपत्तिकं दर्शयितुमाह- तत्र तत्रेति वीप्सापदं यद्यत्तेनार्हता जीवाजीवादिकं सूत्रम् 1-4 (607-610) पदार्थजातं तथा मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इतिकृत्वा संसारकारणत्वेन तथा सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति मोक्षाङ्गतयेत्येतत्सर्वं पूर्वोत्तराविरोधितया युक्तिभिरुपपन्नतया च सुष्ट्वाख्यातं- स्वाख्यातम्, तीर्थिकवचनं तु सर्वज्ञः 'न हिंस्याद्भूतानी'ति भणित्वा तदुपमर्दकारम्भाभ्यनुज्ञानात्पूर्वोत्तरविरोधितया तत्र तत्र चिन्त्यमानं नियुक्तिकत्वान्न स्वाख्यातं भवति, सचाविरुद्धार्थस्याख्यातारागद्वेषमोहानामनृतकारणानामसंभवात् सद्भ्यो हितत्वाच्च सत्यः स्वाख्यातः तत्स्वरूपविद्भिः प्रतिपादितः / रागादयो ह्यनृतकारणं तेच तस्य न सन्ति अतः कारणाभावात्कार्याभाव इति कृत्वा तद्वचो भूतार्थप्रतिपादकम्, तथा चोक्तं- वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् / यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ॥१॥ननु च सर्वज्ञत्वमन्तरेणापि हेयापादेयमात्रपरिज्ञानादपि सत्यता भवत्येव, तथा चोक्तं- सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु / कीटसंख्यापरिज्ञानं, तस्य / न: क्वोपयुज्यते ? // 1 // इत्याशङ्कयाह- सदा सर्वकालं सत्येन अवितथभाषणत्वेन संपन्नोऽसौ अवितथभाषणत्वं च सर्वज्ञत्वे सति भवति, नान्यथा, तथाहि-कीटसंख्यापरिज्ञानासंभवेसर्वत्रापरिज्ञानमाशङ्कयेत, तथा चोक्तं-सदृशे बाधासंभवे तल्लक्षणमेव // 466 // दूषितं स्याद् इति सर्वत्रानाश्वासः, तस्मात्सर्वज्ञत्वं तस्य भगवत एष्टव्यम्, अन्यथा तद्वचसः सदा सत्यता न स्यात्, सत्यो वा 0 भवतीत्यर्ह० (मु०)। 0 ०देव कुती० (मु०)। 0 ब्रुवते वचः (मु०)। 0 तथा भूतार्थ० प्र०। 1
Loading... Page Navigation 1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520