Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 468 // आवरणक्षयात् त्मा सन् परित्यक्तसंसारस्वभावो नौरिव जलोपर्यवतिष्ठते संसारोदन्वत इति, नौरिव- यथा जलेऽनिमज्जनत्वेन प्रख्याता एवमसावपि श्रुतस्कन्धः१ संसारोदन्वति न निमज्जतीति / यथा चासौ निर्यामकाधिष्ठिताऽनुकूलवातेरिता समस्तद्वन्द्वापगमात्तीरमास्कन्दत्येवमायत-8 पञ्चदश मध्ययनं चारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकात्संसारात् त्रुट्यति अपगच्छति मोक्षाख्यं तीरं आदानीयम्, सर्वद्वन्द्वोपरमरूपमवाप्नोतीति // 5 // 611 // अपिच-सहि भावनायोगशुद्धात्मा नौरिव जले संसारोपरि वर्तमानस्त्रिभ्यो- सूत्रम् 5-8 (611-614) मनोवाक्कायेभ्योऽशुभेभ्यस्त्रुट्यति, यदिवा अतीव सर्वबन्धनेभ्यस्त्रुट्यति- मुच्यते अतित्रुट्यति- संसारादतिवर्तते मेधावी मर्यादाव्यवस्थितः सदसद्विवेकी वाऽस्मिन् लोके चतुर्दशरज्ज्वात्मके भूतग्रामलोके वा यत्किमपि पापकं कर्म सावद्यानुष्ठानरूपं सर्वज्ञः धर्माराधकः तत्कार्यं वा अष्टप्रकारं कर्म तत् ज्ञपरिज्ञया जानन् प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततस्त्रुटयति, तस्यैवं लोकं कर्म वा जानतो नवानि कर्माण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुट्यन्ति अतिवर्तन्ते वा नवं च कर्माकुर्वतोऽशेषकर्मक्षयो भवतीति // 6 // 612 // केषाश्चित्सत्यामपि कर्मक्षयानन्तरं मोक्षावाप्तौ तथापिस्वतीर्थनिकारदर्शनतः पुनरपि संसाराभिगमनं भवती(ती) दमाशङ्कयाह- तस्याशेषक्रियारहितस्य योगप्रत्ययाभावात्किमप्यकुर्वतोऽपि नवं प्रत्यग्रं कर्म ज्ञानावरणीयादिकं नास्ति न भवति, कारणाभावात्कार्याभाव इतिकृत्वा, कर्माभावे च कुतः संसाराभिगमनं?, कर्मकार्यत्वात्संसारस्य, तस्य चोपरताशेषद्वन्द्वस्य स्वपरकल्पनाऽभावाद्रागद्वेषरहिततया स्वदर्शननिकाराभिनिवेशोऽपि न भवत्येव, स चैतगुणोपेतः कर्माष्टप्रकारमपि कारणतस्तद्विपाकतश्च जानाति, नमनं नाम-कर्मनिर्जरणं तच्च सम्यक् जानाति, यदिवा कर्मजानाति तन्नामच, अस्य चोपलक्षणार्थत्वात्तद्भेदांश्च प्रकृतिस्थित्युनुभावप्रदेशरूपान्सम्यगवबुध्यते,संभावनायां O संसारे परि० (मु०)। 0 निवर्तन्ते (मु०)। P
Loading... Page Navigation 1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520