Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 493
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम नियुक्तिः 132-136 आदानादिनिक्षेपाः // 461 // // अथ पञ्चदशमध्ययनं आदानीयाख्यम्॥ अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेसबाह्याभ्यन्तरस्य ग्रन्थस्य परित्यागो विधेय इत्यभिहितम्, ग्रन्थपरित्यागाच्चायतचारित्रो भवति साधुः ततो यादृगसौ यथा च संपूर्णामायतचारित्रतां प्रतिपद्यते तदनेनाध्ययनेन प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तगतोऽर्थाधिकारोऽयम्, तद्यथा-आयतचारित्रेण साधुना भाव्यम् / नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिनाsशेषकर्मक्षयार्थं यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिकृत्वा आदानीयमिति नाम संवृत्तम् / पर्यायद्वारेण च प्रतिपादित सुग्रहं भवतीत्यत आदानशब्दस्य तत्पर्यायस्य च ग्रहणशब्दस्य निक्षेपं कर्तुकामो नियुक्तिकृदाह नि०- आदाणे गहणंमि य णिक्खेवो होति दोण्हवि चउक्तो। एगटुं नाणटुंच होज पगयं तु आदाणे॥१३२॥ नि०-जं पढमस्संतिमए बितियस्स उतं हवेज आदिमि / एतेणादाणिज्जं एसो अन्नोऽवि पज्जाओ।।१३३॥ नि०- णामादी ठवणादी दव्वादी चेव होति भावादी। दव्वादी पुण दव्वस्स जो सभावो सए ठाणे // 134 // नि०- आगमणोआगमओ भावादी तंबुहा ववदिसंती ।णोआगमओ भावो पंचविहोणायव्वो॥१३५॥ नि०- आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु / गंथसिलोगो पदपादअक्खराइंच तत्थादी // 136 / / अथवा जमतीयं' ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयते इत्यादानम्, तच्च ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपार्थं नियुक्तिकृदाह- आदाणे इत्यादि, आदीयते कार्यार्थिना तदित्यादानम्, कर्मणि ल्युट् प्रत्ययः, करणे वा, आदीयते- गृह्यते स्वीक्रियते विवक्षितमनेनेति कृत्वा, आदानं च पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपो(पे) // 46

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520