Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 463 // श्रुतस्कन्धः१ पञ्चदशमध्ययन आदानीयम्, नियुक्तिः 132-136 आदानादिनिक्षेपाः स्वकीये पर्याये प्रथम-आदौ भवति स द्रव्यादिः, द्रव्यस्य दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीनः, 8 एवमन्यस्यापि परमाण्वादेर्द्रव्यस्य यो यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिर्भवति / ननु च कथं क्षीरविनाशसमय एव दध्युत्पादः?, तथाहि- उत्पादविनाशौ भावाभावरूपौ वस्तुधौ वर्तेते, न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, अत एकस्मिन्नेव क्षणे तद्धर्मिणोर्दधिक्षीरयोः सत्ताऽवाप्नोति, एतच्च दृष्टेष्टबाधितमिति, नैष दोषः, यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं दोषो, यस्य तु पूर्वोत्तरक्षणानुगतमन्वयि द्रव्यमस्ति तस्यायं दोष एव न भवति, तथाहि- तत्परिणामिद्रव्यमेकस्मिन्नेव क्षणे एकेन स्वभावेनोत्पद्यते परेण विनश्यति, अनन्तधर्मात्मकत्वाद्वस्तुन इति यत्किंचिदेतत्। तदेवं द्रव्यस्य विवक्षितपरिणामेन परिणमतो य आद्यः समयः स द्रव्यादिरिति स्थितम्, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति॥ साम्प्रतं भावादिमधिकृत्याह- भावः- अन्तःकरणस्य परिणतिविशेषस्तं बुद्धाः तीर्थकरगणधरादयो व्यपदिशन्ति प्रतिपादयन्ति, तद्यथा- आगमतो नोआगमतश्च, तत्र नोआगमतः प्रधानपुरुषार्थतया चिन्त्यमानत्वात् पञ्चविधः पञ्चप्रकारो भवति, तद्यथा-प्राणातिपातविरमणादीनांपञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति, तथा आगमओ इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः, तद्यथा- यदेतद्गणिनः-आचार्यस्य पिटकं-सर्वस्वमाधारो वा तद्द्वादशाङ्गं भवति, तुशब्दादन्यदप्युपाङ्गादिकं द्रष्टव्यम्, तस्य च प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तत्राप्याद्यं पदं तस्यापि प्रथममक्षरम्, एवंविधो बहुप्रकारो भावादिष्टव्य इति / तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्यापि ककारो, द्वादशानां त्वङ्गानामाचाराङ्गमादिस्तस्यापि शस्त्रपरिज्ञाध्ययनमस्यापि च जीवोद्देशकस्तस्यापि सुयं ति पदं तस्यापि सुकार इति, अस्यच प्रकृताङ्गस्य समयाध्ययनमादिस्तस्यापि आधुद्देशकश्लोकपादपदवर्णादिष्टव्य इति // 132-136 ॥गतोनामनिष्पन्नो // 463
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520