Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गमवात भवति द्वौ चतुष्को, तद्यथा-नामादानं स्थापनादानं द्रव्यादानं भावादानं च, तत्र नामस्थापने क्षुण्णे, द्रव्यादानं वित्तम्, श्रुतस्कन्धः१ नियुक्तियस्माल्लौकिकैः परित्यक्तान्यकर्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इतिकृत्वा, भावादानं पञ्चदशश्रीशीला० मध्ययनं वृत्तियुतम् तु द्विधा-प्रशस्तमप्रशस्तंच, तत्राप्रशस्तं क्रोधाद्युदयो मिथ्यात्वाविरत्यादिकंवा, प्रशस्तं तूत्तरोत्तरगुणश्रेण्या विशुद्धाध्यवसाय- आदानीयम्, श्रुतस्कन्धः१ कण्डकोपादानं सम्यग्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति, एवं ग्रहणेऽपि नामादिकश्चतुर्धा निक्षेपो नियुक्तिः // 462 // 132-136 द्रष्टव्यः, भावार्थोऽप्यादानपदस्येव द्रष्टव्यः, तत्पर्यायत्वादस्येति / एतच्च ग्रहणं नैगमसंग्रहव्यवहारर्जुसूत्रार्थनयाभिप्रायेणा आदानादिदानपदेन सहालोच्यमानं शक्रेन्द्रादिवदेकार्थ- अभिन्नार्थं भवेत्, शब्दसमभिरूढेत्थंभूतशब्दनयाभिप्रायेण च नानार्थं भवेत्। निक्षेपाः इह तु प्रकृतं प्रस्ताव आदाने आदानविषये यत आदानपदमाश्रित्यास्याभिधानमकारि, आदानीयं वा ज्ञानादिकमाश्रित्य / नाम कृतमिति // आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह- यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते- पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदौ भवति एतेन कारणेन- आद्यन्तपदसदृशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्तेः पर्यायः अभिप्रायः अन्यो वा विशिष्टज्ञानादि आदानीयोपादानादिति / केचित्तु पुनरस्याध्ययनस्यान्तादिपदयोः संकलनात्संकलिकेति नाम कुर्वते, तस्या अपि नामादिकश्चतुर्धा निक्षेपो विधेयः, तत्रापि द्रव्यसंकलिका निगडादौ भावसंकलना तूत्तरोत्तरविशिष्टाध्यवसायसंकलनम्, इदमेव वाऽध्ययनम्, आद्यन्तपदयोः संकलनादिति / / येषामादानपदेनाभिधानं तन्मतेनादौ यत्पदं तदादानपदम्, अत आदेर्निक्षेपं कर्तुकाम आह-आदेर्नामादिकश्चतुर्धा निक्षेपः, // 42 // नामस्थापने सुगमत्वादनादृत्य द्रव्यादि दर्शयति- द्रव्यादिः पुनः द्रव्यस्य परमाण्वादेर्यः स्वभावः परिणतिविशेषः स्वके स्थाने (r) कर्मकरणयोर्भेदात्, यद्वा धातुभेदेनार्थभेदात्, सामान्य ग्रहणं आदावादानादादानमिति वा भेदः / 0 प्रकारेण (मु०)।
Loading... Page Navigation 1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520