Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 483
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 451 // ग्रन्थः , गुणा सर्वकालम्, अनेन तु कालमधिकृत्य विरतिरभिहिता, यतः परिव्रजेत्- परिसमन्ताद्वजेत् संयमानुष्ठायी भवेत्, भावप्राणाति- | श्रुतस्कन्ध:१ पातविरतिं दर्शयति- स्थावरजङ्गमेषु प्राणिषु तदपकारे उपकारे वा मनागपि मनसा प्रद्वेषं न गच्छेद् आस्तां तावद्दुर्वचनदण्ड चतुर्दश | मध्ययन प्रहारादिकम्, तेष्वपकारिष्वपि मनसाऽपि न मङ्गलं चिन्तयेद्, अविकम्पमानः संयमादचलन सदाचारमनुपालयेदिति, तदेवं योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभावरूपांप्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेद्, एवं शेषाण्यपि महाव्रतान्यु- | सूत्रम् 13-16 (592-595) त्तरगुणांश्च ग्रहणासेवनाशिक्षासमन्वितः सम्यगनुपालयेदिति // 14 // 593 ॥गुरोरन्तिके वसतो विनयमाह-सूत्रमर्थं तदुभयं निर्गन्थानां वा विशिष्टेन- प्रष्टव्यकालेनाचार्यादेरवसरंज्ञात्वा प्रजायन्त इति प्रजा- जन्तवस्तासुप्रजासु-जन्तुविषये चतुर्दशभूतग्रामसम्बद्धं कञ्चिदाचार्यादिकं सम्यगितं-सदाचारानुष्ठायिनं सम्यक् वा समन्ताद्वा जन्तुगतं पृच्छेदिति / स च तेन पृष्ट आचार्यादिराचक्षाणः शुश्रूषयितव्यो भवति, यदाचक्षाणस्तद्दर्शयति-मुक्तिगमनयोग्यो भव्यो द्रव्यं रागद्वेषविरहाद्वा द्रव्यं तस्य द्रव्यस्य- वीतरागस्य तीर्थकरस्य वा वृत्तं- अनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचक्षाणः सपर्ययाऽयं माननीयो भवति / कथमित्याहतद् आचार्यादिना कथितं श्रोत्रे-कर्णे कर्तुंशीलमस्य श्रोत्रकारी- यथोपदेशकारी आज्ञाविधायी सन् पृथक् पृथगुपन्यस्तमादरेण हृदये प्रवेशयेत् - चेतसि व्यवस्थापयेत्, व्यवस्थापनीयं दर्शयति-संख्याय सम्यक् ज्ञात्वा इम मिति वक्ष्यमाणं केवलिन इदं / कैवलिकं- केवलिना कथितं समाधिं- सन्मार्गं सम्यग्ज्ञानादिकं मोक्षमार्गमाचार्यादिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति // 15 // 594 // किंचान्यत्- अस्मिन् गुरुकुलवासे निवसता यच्छ्रुतं श्रुत्वा च सम्यक् ®तदपकारेऽनपकारे वा (प्र०)। शत्रोरुपकारे बाह्ये वा दुरायतिके स्वस्य, अन्यथोपकारे द्वेषासंभवात्। 0 संयमादविचलन् (प्र०)। 0 सदाज्ञा० (प्र०)।

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520