Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 454 // समर्था भवन्तीति दर्शयति- ते यथावस्थितधर्मप्ररूपका द्वयोरपि परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया श्रुतस्कन्धः वा करणभूतया संसारसमुद्रस्य पारगा भवन्ति / ते चैवंभूताः? सम्यक् शोधितं पूर्वोत्तराविरुद्धं प्रश्नं शब्दमुदाहरन्ति, तथाहि चतुर्दश मध्ययन पूर्वं बुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य ग्रन्थः , व्याकुर्यादिति, अथवा परेण कश्चिदर्थं पृष्टस्तंप्रश्नंसम्यग्परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तं-आयरियसयासी सूत्रम् 17-20 (596-599) धारिएण अत्थेण झरियमुणिएणं। तो संघमज्झयारे ववहरिउं जे सुहं होति॥१॥ तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः निर्गन्थानां स्वपरतारका भवन्तीति // 18 // 597 ॥सच प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता गुणाः सर्वार्थाश्रयत्वाद्रत्नकरण्डकल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विणामन्यतरोऽपरों वा कश्चिदाचार्यादिः प्रतिभानवान्अर्थविशारदस्तदेवंभूतःकुतश्चिन्निमित्तात् श्रोतुः कुपितोऽपि सूत्रार्थं न छादयेत् नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् / धर्मकथां वा कुर्वन्नार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान्न छादयेत्, तथा परगुणान्न लषयेत्- न विडम्बयेत् / शास्त्रार्थं वा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रार्थवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानं- अभिमानं गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न चापि प्रज्ञावान् सश्रुतिकः परिहास केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासंन विदध्यात्तथा नापि चाशीर्वाद बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, // 454 // (r) आचार्यसकाशाद् अवधरितेनार्थेन स्मारकेण ज्ञात्रा च। ततः सङ्घमध्ये व्यवहर्तुं सुखं भवति॥१॥७०मन्यतरो वा (मु०)। 0 शास्त्रवेत्ता (मु०)। सा व धारि० (मु०)। * होंति (मु०)।
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520