________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 454 // समर्था भवन्तीति दर्शयति- ते यथावस्थितधर्मप्ररूपका द्वयोरपि परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया श्रुतस्कन्धः वा करणभूतया संसारसमुद्रस्य पारगा भवन्ति / ते चैवंभूताः? सम्यक् शोधितं पूर्वोत्तराविरुद्धं प्रश्नं शब्दमुदाहरन्ति, तथाहि चतुर्दश मध्ययन पूर्वं बुद्ध्या पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य ग्रन्थः , व्याकुर्यादिति, अथवा परेण कश्चिदर्थं पृष्टस्तंप्रश्नंसम्यग्परीक्ष्योदाहरेत्-सम्यगुत्तरं दद्यादिति, तथा चोक्तं-आयरियसयासी सूत्रम् 17-20 (596-599) धारिएण अत्थेण झरियमुणिएणं। तो संघमज्झयारे ववहरिउं जे सुहं होति॥१॥ तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः निर्गन्थानां स्वपरतारका भवन्तीति // 18 // 597 ॥सच प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता गुणाः सर्वार्थाश्रयत्वाद्रत्नकरण्डकल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विणामन्यतरोऽपरों वा कश्चिदाचार्यादिः प्रतिभानवान्अर्थविशारदस्तदेवंभूतःकुतश्चिन्निमित्तात् श्रोतुः कुपितोऽपि सूत्रार्थं न छादयेत् नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् / धर्मकथां वा कुर्वन्नार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान्न छादयेत्, तथा परगुणान्न लषयेत्- न विडम्बयेत् / शास्त्रार्थं वा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रार्थवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानं- अभिमानं गर्वं न सेवेत, नाप्यात्मनो बहुश्रुतत्वेन तपस्वित्वेन वा प्रकाशनं कुर्यात्, चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न चापि प्रज्ञावान् सश्रुतिकः परिहास केलिप्रायं ब्रूयाद्, यदिवा कथञ्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासंन विदध्यात्तथा नापि चाशीर्वाद बहुपुत्रो बहुधनो दीर्घायुस्त्वं भूया इत्यादि व्यागृणीयात्, // 454 // (r) आचार्यसकाशाद् अवधरितेनार्थेन स्मारकेण ज्ञात्रा च। ततः सङ्घमध्ये व्यवहर्तुं सुखं भवति॥१॥७०मन्यतरो वा (मु०)। 0 शास्त्रवेत्ता (मु०)। सा व धारि० (मु०)। * होंति (मु०)।