________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 453 // गुणा: // ( // 599 // ) श्रुतस्कन्धः१ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य अवगम्य स्वतः समीहितं चार्थ- मोक्षाख्यं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय चतुर्दश मध्ययनं नित्यं गुरुकुलवासतः प्रतिभानवान् उत्पन्नप्रतिभो भवति ।तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छ्रोतृणां यथावस्थितार्थानां विशारदो। ग्रन्थः , भवति प्रतिपादको भवति / मोक्षार्थिनाऽऽदीयत इत्यादानं- सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते सूत्रम् 17-20 (596-599) यस्यासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं- द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ / निर्गन्थानां तपःसंयमावुपेत्य- प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च शुद्धेन निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारं' ति क्वचित्पाठः, बहुशो म्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स मार:- संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं- प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि- अप्रतिपतितसम्यक्त्व उत्कृष्टतः सप्ताष्टौं। वा भवान् म्रियते नोर्ध्वमिति // 17 // 596 // तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदश्च | सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह- सम्यक् ख्यायते- परिज्ञायते यया सा संख्या- सद्बुद्धिस्तया स्वतो धर्मं परिज्ञायापरेषां यथावस्थितं धर्मं श्रुतचारित्राख्यं व्यागृणन्ति प्रतिपादयन्ति, यदिवा स्वपरशक्तिं परिज्ञाय पर्षदंवा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति / ते चैवंविधा बुद्धाः- कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषांच कर्मापनयन-8 Oमोक्षार्थं (मु०)। 0 अट्ठभवा उ चरित्ते इति वचनाच्चारित्रयुतं सम्यक्त्वं परं प्रतिपाति तदिति अप्रतिपतितसम्यक्त्व इति, जघन्याराधनया वा जन्मभिरष्टत्येकैः इति वचनात्, सप्ताष्टाविति मनुष्यकायस्थित्यपेक्षम्, सम्यक्त्वभवास्तु पल्योपमासंख्यभागमिताः। // 453 //