Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 450 // (592-595) गुणाः अस्सिं सुट्ठिच्चा तिविहेण तायी, एएसुया संति निरोहमाहु / ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंग।सूत्रम् 16 // श्रुतस्कन्धः 1 ( // 595 // ) चतुर्दश मध्ययन यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीते तमसि पश्चाज्जानाति एवं तु ग्रन्थः , शिक्षकोऽप्यभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः- अपुष्कल: सम्यगपरिज्ञातो धर्मः- श्रुतचारित्राख्यो दुर्गतिप्रसृत सूत्रम् 13-16 जन्तुधरणस्वभावो येनासावपुष्टधर्मा, सचागीतार्थः-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्म न जानातीति-नसम्यक् परिच्छिनत्ति, निर्गन्थानां स एव तु पश्चाद्गुरुकुलवासाज्जिनवचनेन कोविदः अभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति- यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निःशङ्कप्रतीयन्त इति / अपिच कदाचिच्चक्षुषाऽन्यथा- भूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा- मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽग्न्याकारेणापीति / नच सर्वज्ञप्रणीतस्यागमस्य क्वचिदपि व्यभिचारः,तव्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धमशक्यत्वादिति // 13 // 592 // शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च / सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षुचेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात-8 विरतिरभिहिता, द्रव्यतस्तु दर्शयति- त्रस्यन्तीति त्रसाः- तेजोवायू द्वीन्द्रियादयश्च, तथा ये च स्थावराः- स्थावरनामकर्मोदयवर्तिनः पृथिव्यब्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, सदा (r) एवं तु शिष्यकः' अभिनव० (मु०)। 0 स्वर्गापूर्वदेवता (प्र०)। 0 सर्वज्ञप्रणीतागमोक्तपदार्थसंभवस्य, सर्वज्ञसंभवस्येति वा। // 450 //
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520