________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 450 // (592-595) गुणाः अस्सिं सुट्ठिच्चा तिविहेण तायी, एएसुया संति निरोहमाहु / ते एवमक्खंति तिलोगदंसी, ण भुजमेयंति पमायसंग।सूत्रम् 16 // श्रुतस्कन्धः 1 ( // 595 // ) चतुर्दश मध्ययन यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्गं न जानाति सूर्योद्गमेनापनीते तमसि पश्चाज्जानाति एवं तु ग्रन्थः , शिक्षकोऽप्यभिनवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः- अपुष्कल: सम्यगपरिज्ञातो धर्मः- श्रुतचारित्राख्यो दुर्गतिप्रसृत सूत्रम् 13-16 जन्तुधरणस्वभावो येनासावपुष्टधर्मा, सचागीतार्थः-सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्म न जानातीति-नसम्यक् परिच्छिनत्ति, निर्गन्थानां स एव तु पश्चाद्गुरुकुलवासाज्जिनवचनेन कोविदः अभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणः सूर्योदयेऽपगतावरणश्चक्षुषेव यथावस्थितान् जीवादीन् पदार्थान् पश्यति, इदमुक्तं भवति- यथा हि इन्द्रियार्थसंपर्कात्साक्षात्कारितया परिस्फुटा घटपटादयः पदार्थाः प्रतीयन्ते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्यवहितविप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटा निःशङ्कप्रतीयन्त इति / अपिच कदाचिच्चक्षुषाऽन्यथा- भूतोऽप्यर्थोऽन्यथा परिच्छिद्यते, तद्यथा- मरुमरीचिकानिचयो जलभ्रान्त्या किंशुकनिचयोऽग्न्याकारेणापीति / नच सर्वज्ञप्रणीतस्यागमस्य क्वचिदपि व्यभिचारः,तव्यभिचारे हि सर्वज्ञत्वहानिप्रसङ्गात्, तत्संभवस्य चासर्वज्ञेन प्रतिषेद्धमशक्यत्वादिति // 13 // 592 // शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति, तत्कोविदश्च / सम्यक् मूलोत्तरगुणान् जानाति, तत्र मूलगुणानधिकृत्याह-ऊर्ध्वमधस्तिर्यग् दिक्षु विदिक्षुचेत्यनेन क्षेत्रमङ्गीकृत्य प्राणातिपात-8 विरतिरभिहिता, द्रव्यतस्तु दर्शयति- त्रस्यन्तीति त्रसाः- तेजोवायू द्वीन्द्रियादयश्च, तथा ये च स्थावराः- स्थावरनामकर्मोदयवर्तिनः पृथिव्यब्वनस्पतयः, तथा ये चैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपा दशविधप्राणधारणात्प्राणिनस्तेषु, सदा (r) एवं तु शिष्यकः' अभिनव० (मु०)। 0 स्वर्गापूर्वदेवता (प्र०)। 0 सर्वज्ञप्रणीतागमोक्तपदार्थसंभवस्य, सर्वज्ञसंभवस्येति वा। // 450 //