SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 446 // ग्रन्थः , गुणाः कथं कथमप्यन्तं गच्छेद्?, इत्येवंभूतां विचिकित्सां गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काञ्चिच्चित्तविप्लुतिं देशसर्वगतां श्रुतस्कन्धः१ तांकृत्स्नांगुर्वन्तिके वसन् वितीर्णो भवति अन्येषामपि तदपनयनसमर्थः स्यादिति // 6 // 585 // किञ्चान्यत्-स गुर्वन्तिके चतुर्दश मध्ययनं निवसन् क्वचित् प्रमादस्खलितः सन् वयःपर्यायाभ्यां क्षुल्लकेन-लघुना चोदितः प्रमादाचरणं प्रति निषिद्धः, तथा वृद्धेन वा वयोऽधिकेन श्रुताऽधिकेन वा अनुशासितः अभिहितः, तद्यथा- भवद्विधानामिदमीहक् प्रमादाचरणमासेवितुमयुक्तम्, तथा सूत्रम् 5-6 (584-585) रत्नाधिकेन वा प्रव्रज्यापर्यायाधिकेन समवूयसा वा अनुशासितःप्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमप्यनेन निर्गन्थानां द्रमकप्रायेणोत्तमकुलप्रसूतः सर्वजनसंमत एवं चोदित इति एवमनुशास्यमानो न मिथ्यादुष्कृतं ददाति न सम्यगुत्थानेनोत्तिष्ठति नापितदनुशासनं सम्यक् स्थिरतः- अपुनःकरणतयाऽभिगच्छेत्- प्रतिपद्येत, चोदितश्च प्रतिचोदयेद्, असम्यक् प्रतिपद्यमानश्चासौ संसारस्रोतसा नीयमान उह्यमानोऽनुशास्यमानः कुपितोऽसौनसंसारार्णवस्य पारगो भवति। यदिवाऽऽचार्यादिना सदुपदेशदानतः / प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति॥७॥५८६॥साम्प्रतं स्वपक्षचोदनानन्तरतः (रं) स्वपरचोदनामधिकृत्याह-विरुद्धोत्थानेनोत्थितोव्युत्थितः- परतीर्थिको गृहस्थोवा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा- नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि, यदिवा व्युत्थितःसंयमाद्भष्टस्तेनापरः साधुः स्खलितः सन् स्वसमयेन- अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् चोदित आगमं प्रदाभिहितः, तद्यथा- नैतत्त्वरितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना क्षुल्लकेन लघुतरेण वयसा वृद्धेन वा कुत्सिताचारप्रवृत्तश्चोदितः, तुशब्दात्समानवयसा वा तथा अतीवाकार्यकरणं प्रति उत्थिता 0 केन श्रुताधिकेन वा सम० (मु०)। 0 मत इत्येवं चोदित इत्येव० (मु०)। // 446 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy