Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 435 // कर्मसहायस्यैवेति, उक्तं च- एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् / जायते म्रियते चैक, एको याति भवान्तरम्॥१॥ इत्यादि। श्रुतस्कन्धः१ तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौनः- संयमस्तेन तत्प्रधानं वा ब्रूयादिति // त्रयोदश मध्ययनं 18 // 574 // किञ्चान्यत्-स्वयं आत्मना परोपदेशमन्तरेण समेत्य ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरति याथातथ्यम्, प्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षंतत्कारणानि चसम्यग्दर्शनज्ञानचारित्राण्येतत्सर्वस्वत एवावबुध्यान्य- सूत्रम् 17-20 स्माद्वाऽऽचार्यादेः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे धर्मं श्रुतचारित्राख्यं भाषेत, किंभूतं?- प्रजायन्त इति प्रजाः- स्थावरजङ्गमा / (573-576) सदसत्तोः जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति / उपादेयं प्रदर्श्य हेयं प्रदर्शयति- ये गर्हिता जुगुप्सिता धर्माधर्माः मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापारा धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपास्तांश्च चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो न सेवन्त नानुतिष्ठन्ति / यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-कुतीर्थिकाः सावधानुष्ठानरता निःशीला निताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्धट्टनयामर्मवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते' न ब्रुवत इति // 19 // 575 / किञ्चान्यत्- केषाञ्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां स्वदर्शनाऽऽग्रहिणां तर्कया वितर्केण स्वमतिपर्यालोचनेन भावं अभिप्रायंदुष्टान्तःकरणवृत्तित्वमबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात्, स च तीर्थिकस्तद्वचः अश्रद्दधानः अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् क्षुद्रत्वमपि गच्छेद् तद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति / क्षुद्रत्वगमनमेव दर्शयति- स निन्दावचनकुपितो ®तांश्चारित्र० (मु०)। ॐ न सेवन्ति (प्र०)। // 435 //
Loading... Page Navigation 1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520