SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 435 // कर्मसहायस्यैवेति, उक्तं च- एकः प्रकुरुते कर्म, भुनक्त्येकश्च तत्फलम् / जायते म्रियते चैक, एको याति भवान्तरम्॥१॥ इत्यादि। श्रुतस्कन्धः१ तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एतद्विगणय्य मुनीनामयं मौनः- संयमस्तेन तत्प्रधानं वा ब्रूयादिति // त्रयोदश मध्ययनं 18 // 574 // किञ्चान्यत्-स्वयं आत्मना परोपदेशमन्तरेण समेत्य ज्ञात्वा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरति याथातथ्यम्, प्रमादकषाययोगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षंतत्कारणानि चसम्यग्दर्शनज्ञानचारित्राण्येतत्सर्वस्वत एवावबुध्यान्य- सूत्रम् 17-20 स्माद्वाऽऽचार्यादेः सकाशाच्छ्रुत्वाऽन्यस्मै मुमुक्षवे धर्मं श्रुतचारित्राख्यं भाषेत, किंभूतं?- प्रजायन्त इति प्रजाः- स्थावरजङ्गमा / (573-576) सदसत्तोः जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्मं ब्रूयादिति / उपादेयं प्रदर्श्य हेयं प्रदर्शयति- ये गर्हिता जुगुप्सिता धर्माधर्माः मिथ्यात्वाविरतिप्रमादकषाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापारा धर्मकथाप्रबन्धा वा ममास्मात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपास्तांश्च चारित्रविघ्नभूतान् महर्षयः सुधीरधर्माणो न सेवन्त नानुतिष्ठन्ति / यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-कुतीर्थिकाः सावधानुष्ठानरता निःशीला निताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्धट्टनयामर्मवेधिनः सुधीरधर्माणो वाक्कण्टकान् 'न सेवन्ते' न ब्रुवत इति // 19 // 575 / किञ्चान्यत्- केषाञ्चिन्मिथ्यादृष्टीनां कुतीर्थिकभावितानां स्वदर्शनाऽऽग्रहिणां तर्कया वितर्केण स्वमतिपर्यालोचनेन भावं अभिप्रायंदुष्टान्तःकरणवृत्तित्वमबुद्धा कश्चित्साधुः श्रावको वा स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात्, स च तीर्थिकस्तद्वचः अश्रद्दधानः अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् क्षुद्रत्वमपि गच्छेद् तद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्येति / क्षुद्रत्वगमनमेव दर्शयति- स निन्दावचनकुपितो ®तांश्चारित्र० (मु०)। ॐ न सेवन्ति (प्र०)। // 435 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy