________________ त्रयोदश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 434 // तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा अननुगृद्धः अनध्युपपन्नः सम्यग्विहरेत्, तथाहि- स्थविरकल्पिका श्रुतस्कन्धः१ द्विचत्वारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानांतु पञ्चस्वभिग्रहो द्वयोर्ग्रहः, ताश्चेमाः- संसट्ठमसंसट्ठा उद्धड तह होति मध्ययन अप्पलेवा य। उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया // 1 // अथवा यो यस्याभिग्रहः सा तस्यैषणा अपरा त्वनेष-8 याथातथ्यम्, णेत्येवमेषणानेषणाभिज्ञः क्वचित्प्रविष्टः सन्नाहारादावमूर्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति // 17 // 573 // तदेवं सूत्रम् 17-20 (573-576) भिक्षोरनुकूलविषयोपलब्धिमतोऽप्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवं भावयुक्ततया च मृतकल्पदेहस्य सदसत्तोः सुदृष्टधर्मण एषणानेषणाभिज्ञस्यान्नपानादावमूर्छितस्य सतः क्वचिद्ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादु धर्माधर्माः ष्ष्यात् सा चापनेतव्येत्येतदाह-महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः / संयमे समुत्पद्येत तांचोत्पन्नामसौ भिक्षुः संसारस्वभावं परिगणय्य तिर्यनारकादिदुःखं चोत्प्रेक्षमाणः स्वल्पंचसंसारिणामायुरित्येवं विचिन्त्याभिभवेद्, अभिभूय चासावेकान्तमौनेन व्यागृणीयादित्युत्तरेण सम्बन्धः, तथा रतिंच असंयमे सावधानुष्ठाने / अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोद्युक्तो भवेदिति / पुनः साधुमेव विशिनष्टि- बहवो जनाः- साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलश्चैकचारी, स च प्रतिमाप्रतिपन्न एकल्लविहारी जिनकल्पादिर्वा स्यात्, सच बहुजन एकाकी वा केनचित्पृष्टोऽपृष्टो वैकान्तमौनेन-संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यद्वा संयमाबाधया किञ्चित्धर्मसम्बद्धं ब्रूयात्, किं परिगणय्यैतत्कुर्यादित्याह, यदिवा किमसौ ब्रूयादिति दर्शयतिएकस्य असहायस्य जन्तोः शुभाशुभसहायस्य गति: गमनं परलोके भवति, तथा आगतिः- आगमनं भवान्तरादुपजायते / (r) संसृष्टाऽसंसृष्टा उद्धृता तथा भवत्यल्पलेपा च / उगृहीता प्रगृहीता उज्झितधर्मा च सप्तमिका // 1 // O अन्यदा (मु०)। // 434 //