Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 469
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 437 // सदसत्त सम्यक् विवेचयेत् जानीयात्, ज्ञात्वा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनांकुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादिपदार्था- श्रुतस्कन्धः१ वगमो भवति यथा च मनो न दूष्यते, अपितु प्रसन्नतां व्रजति, एतदभिसन्धिमानाह- विशेषेण नयेद्-अपनयेत् पर्षदः पापभावं त्रयोदश मध्ययनं अशुद्धमन्तःकरणम्, तुशब्दाद्विशिष्टगुणारोपणंच कुर्यात्, आयभावंति क्वचित्पाठः, तस्यायमर्थः- आत्मभावः अनादिभवा- याथातथ्यम्, भ्यस्तो मिथ्यात्वादिकस्तमपनयेत्, यदिवाऽऽत्मभावो-विषयगृनुताऽतस्तमपनयेदिति / एतद्दर्शयति- रूपैः नयनमनोहारिभिः सूत्रम् 21-23 (577-579) स्त्रीणामङ्गप्रत्यङ्गार्द्धकटाक्षनिरीक्षणादिभिरल्पसत्त्वा विलुप्यन्ते सद्धर्माद्बाध्यन्ते, किंभूतै रूपैः? भयावहैः भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः प्रादुर्भ-धर्माधर्माः वन्ति जन्मान्तरेच तिर्यड्नरकादिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं विद्वान् पण्डितो धर्मदेशनाभिज्ञो गृहीत्वा पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् // 21 // 577 // पूजासत्कारादिनिरपेक्षेण च / सर्वमेव तपश्चरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह- साधुर्देशनां विदधानो न पूजनं- वस्त्रपात्रादिलाभरूपमभिकाङ्ग्रेनापि श्लोक- श्लाघां कीर्ति आत्मप्रशंसां कामयेद् अभिलषेत्, तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथादिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं धर्म सम्यग्दर्शनादिकं कथयेत्, उपसंहारमाह- सर्वाननन् पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् वर्जयन्परिहरन् कथयेद् अनाकुलः सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥२२॥५७८॥सर्वाध्ययनोपसंहारार्थमाहआहत्तहिज्ज मित्यादि, यथातथाभावो याथातथ्यं- धर्ममार्गसमवसरणाख्याध्ययनत्रयोक्तार्थतत्त्वं सूत्रानुगतं सम्यक्त्वं चारित्रं (r) सद्धर्माच्च्याव्यते (प्र०)।® आहत्तहीय (मु०)। // 437 //

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520