Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ |श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 440 // श्रुतस्कन्धः१ चतुर्दशमध्ययन ग्रन्थः , नियुक्तिः |127-131 ग्रन्थनिक्षेपादिः शैक्षकः स द्विविधो- द्विप्रकारो भवति, तद्यथा- ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां- इच्छामिच्छातहक्कारादिरूपां गृह्णाति शिक्षति, तथा शिक्षितां चाभ्यस्यति- अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह- शिक्षाया ग्रहणे उपादानेऽधिकृते त्रिविधो भवति शिक्षक, तद्यथा- सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः।साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह- यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- आसेवणाए इत्यादि, मूलगुणे मूलगुणविषये आसेवमानः- सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा उत्तरगुणे चउत्तरगुणविषयं च सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पञ्चप्रकार:- प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षुकः, तथोत्तरगुणविषये सम्यक्पिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः- पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो। पडिमा अभिग्गहा विय उत्तरगुणमो वियाणाहि॥ 1 // यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- उत्तरगुणे उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति // शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणायाह-शिष्यापेक्षया हि आचार्यो द्विविधो द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयन्नपि द्विविध:एको यः शिक्षाशास्त्रं ग्राहयति-पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति- सम्यगनुष्ठानं कारयति / तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्त्रिधा भवति / आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्द्विविधो भवति // 127-131 // गतो 0 शैक्षकः (मु०)। 0 पिण्डस्स या विशोधिः समितयो भावनास्तपो द्विविधम्। प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि // 1 // सत्स्वप्येते प्र० / // 440 //
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520