SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ |श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 440 // श्रुतस्कन्धः१ चतुर्दशमध्ययन ग्रन्थः , नियुक्तिः |127-131 ग्रन्थनिक्षेपादिः शैक्षकः स द्विविधो- द्विप्रकारो भवति, तद्यथा- ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां- इच्छामिच्छातहक्कारादिरूपां गृह्णाति शिक्षति, तथा शिक्षितां चाभ्यस्यति- अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह- शिक्षाया ग्रहणे उपादानेऽधिकृते त्रिविधो भवति शिक्षक, तद्यथा- सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः।साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह- यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- आसेवणाए इत्यादि, मूलगुणे मूलगुणविषये आसेवमानः- सम्यग्मूलगुणानामनुष्ठानं कुर्वन् तथा उत्तरगुणे चउत्तरगुणविषयं च सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पञ्चप्रकार:- प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षुकः, तथोत्तरगुणविषये सम्यक्पिण्डविशुद्ध्यादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः- पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो। पडिमा अभिग्गहा विय उत्तरगुणमो वियाणाहि॥ 1 // यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- उत्तरगुणे उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति // शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणायाह-शिष्यापेक्षया हि आचार्यो द्विविधो द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयन्नपि द्विविध:एको यः शिक्षाशास्त्रं ग्राहयति-पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति- सम्यगनुष्ठानं कारयति / तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नप्याचार्यस्त्रिधा भवति / आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्द्विविधो भवति // 127-131 // गतो 0 शैक्षकः (मु०)। 0 पिण्डस्स या विशोधिः समितयो भावनास्तपो द्विविधम्। प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि // 1 // सत्स्वप्येते प्र० / // 440 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy