________________ श्रुतस्कन्धः१ चतुर्दशमध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 439 // नियुक्तिः 127-131 ग्रन्थनिक्षेपादिः ॥अथ चतुर्दशमध्ययनं ग्रन्थाख्यम् // उक्तं त्रयोदशमध्ययनम्, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने याथातथ्यमिति सम्यक्चारित्रमभिहितम्, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम् , तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागो विधेय इति / नामनिष्पन्ने तु निक्षेपे आदानपदागुणनिष्पन्नत्वाच्च ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकृदाह नि०-गंथो पुवुद्दिवो दुविहो सिस्सोय होति णायव्वो। पव्वावण सिक्खावण पगयं सिक्खावणाए उ॥१२७।। नि०-सो सिक्खगो य दुविहो गहणे आसेवणाए यणायव्वो। गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य // 128 / / नि०- आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य। मूलगुणे पंचविहो उत्तरगुण बारसविहो उ॥१२९॥ नि०- आयरिओऽविय दुविहो पव्वावंतो व सिक्खवंतोय। सिक्खावंतो दुविहो गहणे आसेवणे चेव // 130 // नि०- गाहावितो तिविहो सुत्ते अत्थे य तदुभए चेव / मूलगुण उत्तरगुणे दुविहो आसेवणाए उ॥१३१।। __ ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो द्विविधो द्विप्रकारो ज्ञातव्यो भवति, तद्यथा- प्रव्रज्यया शिक्षया च, यस्य प्रव्रज्या दीयते शिक्षां वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह तु पुनः शिक्षाशिष्येण प्रकृतं अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः॥ यथाप्रतिज्ञातमधिकृत्याह- यः शिक्षां गृह्णाति 8 // 439 //