Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 461
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन् // 429 // पठन्नपि सर्वशास्त्राणि तदर्थं चावगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानातीति॥९॥५६५॥ सर्वेषां मदस्थानानामु- श्रुतस्कन्धः१ त्पत्तेरारभ्य जातिमदो बाह्यनिमित्तनिरपेक्षो यतो भवत्यतस्तमधिकृत्याह- यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा त्रयोदश मध्ययन इक्ष्वाकुवंशादिकः, तद्भेदमेव दर्शयति- उग्रपुत्रः क्षत्रियविशेषजातीयः तथा लेच्छइ त्ति क्षत्रियविशेष एव, तदेवमादिविशिष्ट याथातथ्यम्, कुलोद्भूतो यथावस्थितसंसारस्वभाववेदितया यः प्रव्रजितः त्यक्तराज्यादिगृहपाशबन्धन: परैर्दत्तं भोक्तुं शीलमस्य परदत्तभोजी (565-567) सम्यक्संयमानुष्ठायी गोत्रे उच्चैर्गोत्रे हरिवंशस्थानीये समुत्पन्नोऽपि नैव स्तम्भं गर्वमुपयायादिति, किंभूते गोत्रे इति? मानबद्ध सदसत्तो: अभिमानास्पदे इति, एतदुक्तं भवति-विशिष्टजातीयतया सर्वलोकाभिमान्योऽपि प्रव्रजितः सन् कृतशिरस्तुण्डमुण्डनो भिक्षार्थं धर्माधर्माः परगृहाण्यटन् कथं हास्यास्पदं गर्वं कुर्यात्?, नैवासौ मानं कुर्यादिति तात्पर्यार्थः॥१०॥५६६॥न चासौ मानः क्रियमाणो गुणायेति दर्शयितुमाह- न हि तस्य लघुप्रकृतेरभिमानोद्धरस्य जातिमदः कुलमदो वा क्रियमाणः संसारे पर्यटतस्त्राणं भवति, न ह्यभिमानो जात्यादिकं ऐहिकामुष्मिकगुणयोरुपकारीति, इह च मातृसमुत्था जातिः पितृसमुत्थं कुलम्, एतच्चोपलक्षणम्, अन्यदपि मदस्थानंन संसारत्राणायेति, यत्पुनः संसारोत्तारकत्वेन त्राणसमर्थं तदर्शयति-ज्ञानंच चरणंच ज्ञानचरणं तस्मादन्यत्र संसाररोत्तारणत्राणाशा न विद्यते, एतच्च सम्यक्त्वोपबृंहितं सत् सुष्ठु चीर्णं सुचीर्णं संसारादुत्तारयति, 'ज्ञानक्रियाभ्यां मोक्ष इति वचनात्, एवंभूते सत्यपि मोक्षमार्गे निष्क्रम्यापि प्रव्रज्यांगृहीत्वापिकश्चिदपुष्टधर्मा संसारोन्मुखः सेवते अनुतिष्ठत्यभ्यस्यति पौनःपुन्येन विधत्ते अगारिणां- गृहस्थानामङ्ग- कारणं जात्यादिकं मदस्थानम्, पाठान्तरं वा अगारिकम्मं ति अगारिणां // 429 // कर्मअनुष्ठानं सावद्यमारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगो भवति, निःशेष (r) अभिमानबद्धे (मु०)।

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520