Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 464
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 432 // ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदव- श्रुतस्कन्धः। लिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं खिंसइ त्ति निन्दति परिभवति, वक्ति च-नमत्तुल्यः त्रयोदश मध्ययनं सर्वसाधारणशय्यासंस्तारकाधुपकरणोत्पादको विद्यते, किमन्यैः स्वोदरभरणव्यग्रता काकप्रायः कृत्यमस्तीत्येवं बालप्रज्ञो / याथातथ्यम्, मूर्खप्रायोऽपरजनापवादं विदध्यादिति, // 14 // 570 // तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसदृशैर्भूयते सूत्रम् 13-16 यतोऽतःप्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह (569-572) सदसत्तो: प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता धर्माधर्माः तथाऽहमेव विकृष्टतपोविधायी नापिच तपसोग्लानिमुपगच्छामीत्येवंरूपं मदन कुर्यात्, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदंचनामयेदिति / आ-समन्ताज्जीवन्त्यनेनेत्याजीव:- अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः- अर्थमदस्तं च चतुर्थं नामयेत्, चशब्दाच्छेषानपि मदान्नामयेत्, तन्नामनाच्चासौ पण्डितः तत्त्ववेत्ता भवति, तथाऽसावेव। समस्तमदापनोदक उत्तमः पुगल-आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थ:- उत्तमोत्तमो-महतोऽपिमहीयान् भवतीत्यर्थः ॥१५॥५७१॥साम्प्रतं मदस्थानानामकरणीयत्वमुपदर्योपसंजिहीर्षुराह- एतानि प्रज्ञादीनि मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय विगिंचत्ति पृथक्कुर्यादात्मनोऽपनयेदितियावत्, धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति- अनुतिष्ठन्ति, के एते?- ये सुधीरः- सुप्रतिष्ठितो धर्मः- श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगता गोत्रापगताः // 432 //

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520