________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 432 // ह्यल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदव- श्रुतस्कन्धः। लिप्तश्च समाधिमप्राप्तो भवति, स चैवंभूतोऽन्यं जनं कर्मोदयादलब्धिमन्तं खिंसइ त्ति निन्दति परिभवति, वक्ति च-नमत्तुल्यः त्रयोदश मध्ययनं सर्वसाधारणशय्यासंस्तारकाधुपकरणोत्पादको विद्यते, किमन्यैः स्वोदरभरणव्यग्रता काकप्रायः कृत्यमस्तीत्येवं बालप्रज्ञो / याथातथ्यम्, मूर्खप्रायोऽपरजनापवादं विदध्यादिति, // 14 // 570 // तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्द्यमाने बालसदृशैर्भूयते सूत्रम् 13-16 यतोऽतःप्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः अन्यदपि मदस्थानं संसारजिहीर्षुणा न विधेयमिति तद्दर्शयितुमाह (569-572) सदसत्तो: प्रज्ञया-तीक्ष्णबुद्ध्या मदः प्रज्ञामदस्तं च, तपोमदं च निश्चयेन नामयेन्निर्नामयेद्-अपनयेद्, अहमेव यथाविधशास्त्रार्थस्य वेत्ता धर्माधर्माः तथाऽहमेव विकृष्टतपोविधायी नापिच तपसोग्लानिमुपगच्छामीत्येवंरूपं मदन कुर्यात्, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मकं गोत्रमदंचनामयेदिति / आ-समन्ताज्जीवन्त्यनेनेत्याजीव:- अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः- अर्थमदस्तं च चतुर्थं नामयेत्, चशब्दाच्छेषानपि मदान्नामयेत्, तन्नामनाच्चासौ पण्डितः तत्त्ववेत्ता भवति, तथाऽसावेव। समस्तमदापनोदक उत्तमः पुगल-आत्मा भवति, प्रधानवाची वा पुद्गलशब्दः, ततश्चायमर्थ:- उत्तमोत्तमो-महतोऽपिमहीयान् भवतीत्यर्थः ॥१५॥५७१॥साम्प्रतं मदस्थानानामकरणीयत्वमुपदर्योपसंजिहीर्षुराह- एतानि प्रज्ञादीनि मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय विगिंचत्ति पृथक्कुर्यादात्मनोऽपनयेदितियावत्, धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदस्थानानि सेवन्ति- अनुतिष्ठन्ति, के एते?- ये सुधीरः- सुप्रतिष्ठितो धर्मः- श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वस्मादुच्चैर्गोत्रादेरपगता गोत्रापगताः // 432 //