SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ त्रयोदश श्रीसूत्रकृताङ्गसुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः, तथा प्रतिभा प्रतिभानं-औत्पत्तिक्यादिबुद्धिगुणसमन्वितत्वेनोत्पन्नप्रतिभत्वं / श्रुतस्कन्धः१ नियुक्ति तत्प्रतिभानं विद्यते यस्यासौ प्रतिभानवान्- परेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुष: कंच श्रीशीला० मध्ययनं वृत्तियुतम् देवताविशेषं प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासन्नप्रतिभतया (ऽवेत्य) यथायोगमाचष्टे, तथा विशारदः अर्थग्रहणसमर्थो / याथातथ्यम्, श्रुतस्कन्धः 1 बहुप्रकारार्थकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायज्ञः, तथा आगाढा- अवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा- सूत्रम् 13-16 // 431 // (569-572) बुद्धिर्यस्यासावागाढप्रज्ञः, तथा सुष्ठु विविधं भावितो- धर्मवासनया वासित आत्मा यस्यासौ सुविभावितात्मा, तदेवमेभिः सदसत्तो: सत्यभाषादिभिर्गुणैः शोभनः साधुर्भवति, यश्चैभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात्, तद्यथा- अहमेव भाषाविधिज्ञस्तथा / धर्माधर्माः साधुवाद्यहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिकः लोकोत्तरशास्त्रार्थविशारदोऽवगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोत्कर्षवानन्यं जनं स्वकीयया प्रज्ञया परिभवेत् अवमन्येत, तथाहि- किमनेन वाक्कुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमस्ति? क्वचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तंअन्यैः स्वेच्छारचितानर्थविशेषान् श्रमेण विज्ञाय। कृत्स्नं वाङ्मयमित इति खादत्यङ्गानि दर्पण // 1 // इत्यादि // 13 // 569 // साम्प्रतमेतदोषाभिधित्सयाऽऽह-एवं अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्त्वार्थावगाढप्रज्ञोऽप्यसौसमाधि मोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वान प्राप्तो भवति, उपर्येवासौ परमार्थोदन्वतः प्लवते, क एवंभूतो भवतीति दर्शयति- यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः स्वप्रज्ञया भिक्षुः उत्कर्षेद् गर्व कुर्यात्, नासौ समाधि प्राप्तो भवतीति प्राक्तनेन सम्बन्धः, अन्यमपि मदस्थानदोषमुद्धट्टयति - अथवे ति पक्षान्तरे, यो (r) काकर्पास (प्र०)। (r) अन्यदपि मदस्थानमुद्धट्ट० (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy