________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
जंबू इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ - महाहिमवत् २ - हैमवत ३रोहिता ४-ह्री ५-हरिकान्ता ६ - हरि ७ - वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति । एवमित्यादि, एवंकरणात् जंबू इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध १ - निषध २ - हरिवर्ष ३ - प्राग्विदेह ४ - हरि ५ - धृति ६शीतोदा ७-अपरविदेह ८ - रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति ।
८३
नीलवर्षधरपर्वते हि सिद्ध १ - नील २ - पूर्वविदेह ३ - शीता ४ - कीर्त्ति ५ - नारीकान्ता ६ - Sपरविदेह ७ - रम्यक ८ - उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । एवमित्यादि, रुक्मिवर्षधरे हि सिद्ध १ - रुक्मि २ - रम्यक ३ - नरकान्ता ४बुद्धि ५- रूप्यकूला ६ - हैरण्यवत ७ - मणिकाञ्चनकूटा ८ ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । एवमित्यादि शिखरिणि हि वर्षधरे सिद्ध १ - शिखरि २ - हैरण्यवत ३सुरादेवी ४ - रक्ता ५ - लक्ष्मी ६ - सुवर्णकूला ७- रक्तोदा ८ - गन्धापाति ९ - ऐरावत १०तिगिंच्छकूटा ११ ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति ।
[सू० ८८] जंबूमंदरउत्तरदाहिणेणं चुल्लहिमवंत - सिहरीसु वासहरपव्वतेसु दो महद्दहा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवहंति, आयाम-विक्खंभ-उव्वेह-संठाण-परिणाहेणं, तंजहा - पउमद्दहे चेव पुंडरीयद्दहे चेव, तत्थ णं दो देवयाओ महिड्डियाओ जाव पलिओवमट्ठितीयाओ परिवसंति, तंजहा - सिरी चेव लच्छी चेव । एवं महाहिमवंत - रुप्पीसु वासहरपव्वसु दो महद्दहा पन्नत्ता बहुसम [ जाव तंजहा - ] महापउमद्दहे चेव महापुंडरीयद्दहे चेव, देवताओ हिरि च्चेव बुद्धि च्चेव । एवं निसढ - नीलवंतेसु तिगिंच्छिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्ती चेव १२ । [0] जंबू इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव हूदाः, तद्यथा
पउमे य १ महापउमे २ तिगिंछी ३ केसरी ४ दहे चेव ।
हर महपुंडरीए ५ पुंडरीए चेव य ६ दहाओ || [ बृहत्क्षेत्र० १६८ ]