Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 387
________________ ३७० [अथ चतुर्थ उद्देशकः] [सू० ३३९] चत्तारि पसप्पगा पन्नत्ता, तंजहा-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पते, पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते, अणुप्पन्नाणं सोक्खाणं उप्पाएत्ता एगे पसप्पए, पुव्वुप्पन्नाणं सोक्खाणं अविप्पयोगेणं एगे पसप्पए । [टी०] व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं चत्तारि पसप्पगेत्यादि । अस्य चानन्तरसूत्रेण सहाऽयं सम्बन्धः- अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या- प्रकर्षेण सर्पन्ति गच्छन्ति भोगाद्यर्थं देशानुदेशं सञ्चरन्ति आरम्भ-परिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, अणुप्पन्नाणं ति द्वितीयार्थे षष्ठीति अनुत्पन्नान् असम्पन्नान् भोगान् शब्दादीन् तत्कारणद्रविणा-ऽङ्गनादीन् वा उप्पाएत्त त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता उत्पादकः सन् एकः कोऽपि प्रसर्पति प्रगच्छति, प्रसर्पको वा प्रगन्ता ‘भवती'ति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः, उक्तं च धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु । मारेइ बंधवं पि हु पुरिसो जो होज्ज धणलुद्धो ॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धट्ठो । कुल-सील-जातिपच्चयट्टिइं च लोभहुओ चयइ ॥ [ ] त्ति । तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा अविप्पयोगेणं ति अविप्रयोगाय रक्षणार्थमिति । सौख्यानामिति भोगसम्पाद्यानन्दविशेषाणाम्, शेषं सुगमम् । [सू० ३४०] णेरतिताणं चउव्विहे आहारे पन्नत्ते, तंजहा-इंगालोवमे, मुम्मुरोवमे, सीतले, हिमसीतले । तिरिक्खजोणियाणं चउब्विहे आहारे पन्नत्ते, तंजहा-कंकोवमे, बिलोवमे,

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432