Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 402
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । ३८५ वंशशकलकृत:, चम्मकडे त्ति वर्धव्यूतमञ्चकादिः, कंबलकडे त्ति कम्बलमेवेति ३२। एतेषु चाल्प-बहु-बहुतर-बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीया:, तथाहियस्य गुर्वादिष्वल्प: प्रतिबन्ध: स्वल्पव्यलीकादिनापि विगमात् स सुंबकटसमान इत्येवं सर्वत्र भावनीयमिति ३३ ।। __ चतुष्पदा: स्थलचरपञ्चेन्द्रियतिर्यञ्चः, एकः खुर: पादे पादे येषां ते एकखुरा: अश्वादयः, एवं द्वौ खुरौ येषां ते तथा, ते च गवादयः, गण्डी सुवर्णकारादीनामधिकरणी गण्डिका, तद्वत् पदानि येषां ते तथा, ते च हस्त्यादयः, सणप्फय त्ति सनखपदा: नाखराः सिंहादय:, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकार एवेति ३४ । चर्ममयपक्षा: पक्षिणश्चर्मपक्षिणो वल्गुलीप्रभृतयः, एवं लोमपक्षिणो हंसादय:, समुद्कवत् पक्षौ येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्वीप-समुद्रेषु, एवं विततपक्षिणोऽपीति ३५ । क्षुद्रा अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा उच्छ्वासादिमन्त: क्षुद्रप्राणाः, संमूर्छन निर्वृत्ता: सम्मूर्छिमा:, तिरश्चां सत्का योनिर्येषां ते तथा, तत: पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६ । निपतिता नीडादवतरीता अवतरीतुं शक्तो नामैक: पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्य: परिव्रजितुं शक्त: पुष्टत्वान्न तु निपतितुं भीरुत्वात्, अन्यस्तूभयथा, चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७। निपतिता भिक्षाचर्यायामवतरीता भोजनाद्यर्थित्वान्न तु परिव्रजिता परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः, अन्य: परिव्रजिता परिभ्रमणशील आश्रयान्निर्गत: सन् न तु निपतिता भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ ३८। निष्कृष्टः निष्कर्षित: तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावत: कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९ । एतद्भावनार्थमेवानन्तरं सूत्रम्-निष्कृष्टः कृशशरीरतया, तथा निष्कृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति । अथवा निष्कृष्टस्तपसा कृशीकृत: पूर्वं पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति ४० । बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तं च

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432