Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
यत्र तत् परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतो: प्रयोजननिमित्तं चिकीर्षितकार्यं प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते उपकृते प्रतिकृतं प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिक:, इति वा कृतप्रत्युपकर्त्तेति हेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने, वा विकल्पे ।
४०५
[सू० ३७१] णेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा - कोधेणं, माणेणं, मायाए, लोभेणं । एवं जाव वेमाणियाणं १ ।
णेरइयाणं चउट्ठाणनिव्वत्तिते सरीरए पन्नत्ते, तंजहा -कोहनिव्वत्तिए जाव लोभनिव्वत्ति । एवं जाव वेमाणियाणं २ |
[टी०] इदं च गुणनाशनादि शरीरेण क्रियत इति शरीरस्योत्पत्ति - निर्वृत्तिसूत्राणां दण्डकद्वयम्, कण्ठ्यं चैतत्, नवरं क्रोधादयः कर्म्मबन्धहेतवः, कर्म्म च शरीरोत्पत्ति - कारणमिति कारणकारणे कारणोपचारात् क्रोधादय: शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति चउहिं ठाणेहिं सरीरेत्याद्युक्तम्, क्रोधादिजन्यकर्म्मनिर्वर्त्तितत्वात् क्रोधादिनिर्वर्त्तितं शरीरमित्यपदिष्टम्, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तु निष्पत्तिरिति ।
[सू० ३७२ ] चत्तारि धम्मदारा पन्नत्ता, तंजहा - खंती, मुत्ती, अज्जवे,
मद्दवे ।
[टी०] क्रोधादय: शरीरनिर्वृत्तेः कारणानीत्युक्तम्, तन्निग्रहास्तु धर्म्मस्येत्याह- चत्तारि धम्मेत्यादि, धर्म्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि उपायाः ।
[सू० ३७३] चउहिं ठाणेहिं जीवा णेरतियत्ताए कम्मं पकरेंति, तंजहामहारंभताते, महापरिग्गहताते, पंचेंदियवहेणं, कुणिमाहारेणं १ |
चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेंति, तंजहामाइल्लताते, णियडिल्लताते, अलियवयणेणं, कूडतुलकूडमाणेणं २ |
चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पकरेंति, तंजहा - पगतिभद्दताते, पगतिविणीयताए, साणुक्कोसताते, अमच्छरितताते ३।

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432