Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४०८
भवण १० वण ८ इत्यादि [बृहत्सं० १४३-४४] ।
भवधारणीयान्येवम्, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टेनैतत्, जघन्यतस्त्वगुलासङ्ख्येयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गुलसङ्ख्येयभागप्रमाणानीति ।
[सू० ३७६] चत्तारि दगगब्भा पन्नत्ता, तंजहा-उस्सा, महिया, सीता, उसिणा।
चत्तारि उदगगब्भा पन्नत्ता, तंजहा-हेमगा, अब्भसंथडा, सीतोसिणा, पंचरूविता
माहे तु हेमगा गब्भा, फग्गुणे अब्भसंथडा । सीतोसिणा उ चेत्ते, वतिसाहे पंचरूविता ॥३०॥ [टी०] अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय चत्तारीत्यादि सूत्रद्वयमाह । दगगब्भ त्ति दकस्य उदकस्य गर्भा इव गर्भा दकगर्भाः कालान्तरे जलवर्षणस्य हेतवः, तत्संसूचका इति तत्त्वमिति, अवश्याय: क्षपाजलम्, महिका धूमिका, शीतान्यात्यन्तिकानि, एवमुष्णा धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षणाव्याहता: सन्तः षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्
पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः ।
जलमत्स्येन सहोक्ता: दशधा धातुप्रजनहेतुः ॥ [ ] तथा- शीता वाताश्च बिन्दुश्च गर्जितं परिवेषणम् ।
सर्व्वगर्भेषु शंसन्ति निर्ग्रन्था: साधुदर्शना: ॥ [भद्रबाहु० १२।८] तथा- सप्तमे सप्तमे मासे सप्तमे सप्तमे ऽहनि ।
गर्भा: पाकं नियच्छन्ति यादृशास्तादृशं फलम् ॥ [भद्रबाहु० १२।४] हिमं तुहिनम्, तदेव हिमकम्, तस्यैते हैमका हिमपातरूपा इत्यर्थः, अब्भसंथड त्ति अभ्रसंस्थितानि, मेघेराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां गर्जित-विद्यु-जल-वाता-ऽभ्रलक्षणानां समाहार: पञ्चरूपम्, तदस्ति येषां ते

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432