Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४०७ चउव्विहे अभिणते पन्नत्ते, तंजहा-दिलृतिते, पाडंसुते, सामंतोवातणिते, लोगमज्झावसिते ६। __ [टी०] अनन्तरं देवोत्पत्तिकारणान्युक्तानि, देवाश्च वाद्य-नाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय षट्सूत्री, तत्र वजे त्ति वाद्यम्, तत्र ततं वीणादिकं ज्ञेयं विततं पटहादिकम् । घनं तु कांस्यतालादि वंशादि शुषिरं मतम् ॥ [ ] इति । नाट्य-गेया-ऽभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि ।। मालायां साधु माल्यं पुष्पम्, तद्रचनापि माल्यम्, ग्रन्थ: सन्दर्भ: सूत्रेण ग्रन्थनम्, तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टः, तेन निर्वृत्तं वेष्टिमं मुकुटादि, पूरेण पूरणेन निर्वृत्तं पूरिमं मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत् पुष्पैः पूर्यत इति, सङ्घातेन निर्वृत्तं सङ्घातिमं यत् परस्परत: पुष्पनालादिसङ्घातनेनोपजन्यत इति । अलक्रियते भूष्यतेऽनेनेत्यलङ्कारः, केशा एवालङ्कार: केशालङ्कारः, एवं सर्वत्र ।
[सू० ३७५] सणंकुमार-माहिंदेसु णं कप्पेसु विमाणा चउवण्णा पन्नत्ता, तंजहा-णीला, लोहिता, हालिद्दा, सुक्किला १।
महासुक्क-सहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरगा उक्कोसेणं चत्तारि रतणीओ उटुंउच्चत्तेणं पन्नत्ता २।
[टी०] देवाधिकारवत्येव सणंकुमारेत्यादिका द्विसूत्री, सुगमा चेयम्, नवरं सनत्कुमार-माहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम्
सोहम्मे पंचवण्णा एक्कगहाणी उ जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ ॥ [बृहत्सं० १३२] द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानि: कार्येत्यर्थः । तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं यजन्मतो मरणावधि । कृतमुष्टिकस्तु रत्नि: स एव वितताङ्गुलिररनि: [ ] इति वचने सत्यपि रत्निशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्र-सहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432