Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४११
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । जिणसंकासाणं सव्वक्खरसन्निवातीणं जिणो इव अवितथं वागरमाणाणं उक्कोसिता चोद्दसपुव्विसंपया होत्था ।
[सू० ३८२] समणस्स णं भगवओ महावीरस्स चत्तारि सत्ता वादीणं सदेवमणुयासुराते परिसाते अपराजिताणं उक्कोसिता वादिसंपया होत्था ।
[सू० ३८३] हेट्ठिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहासोहम्मे, ईसाणे, सणंकुमारे, माहिंदे ।
मज्झिल्ला चत्तारि कप्पा पडिपुन्नचंदसंठाणसंठिता पन्नत्ता, तंजहा-बंभलोगे, लंतते, महासुक्के, सहस्सारे ।
उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते, पाणते, आरणे, अच्चुते ।
[टी०] वैक्रियसमुद्घातो हि लब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्टश्रुतलब्धिमतामभिधानाय अरहओ इत्यादि सूत्रद्वयी सुगमा, नवरमजिनानामसर्वज्ञत्वात्, जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्व्वक्तृत्वाच्च, सर्वे अक्षराणाम् अकारादीनां सन्निपाता द्वयादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह- जिणो विवेत्यादि । उक्कोसिय त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवु: कदाचिदपीति ।
ते च प्राय: कल्पेषु गता इति कल्पसूत्राणि सुगमानि च, नवरम् अद्धचंदसंठाणसंठिए त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति ।
[सू० ३८४] चत्तारि समुद्दा पत्तेयरसा पन्नत्ता, तंजहा-लवणोदे, वरुणोदे, खीरोदे, घतोदे ।
[टी०] देवलोका हि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं सुगमम्, नवरम् एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवण:, पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः, वारुणी सुरा, तया समानं वारुणम्, वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः, क्षीरवत्तथा घृतवदुदकं

Page Navigation
1 ... 426 427 428 429 430 431 432