Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 427
________________ ४१० सति बिम्बं तत्र गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम् अत एव च शुक्रस्य, बाहुल्याजायते पुमान् ।। रक्तस्य स्त्री तयोः साम्ये, क्लीब: शुक्रातवे पुन: ॥ वायुना बहुशो भिन्ने, यथास्वं बह्वपत्यता । वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः ॥ [ ] इति ॥ [सू० ३७८] उप्पायपुव्वस्स णं चत्तारि चूलवत्थू पन्नत्ता । [टी०] गर्भ: प्राणिनां जन्मविशेषः, स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे प्रपञ्च्यते इति तत्स्वरूपविशेषप्रतिपादनायाह- उप्पायेत्यादि कण्ठ्यम्, नवरम् उत्पादपूर्वं प्रथमं पूर्वाणाम्, तस्य चूला आचारस्याग्राणीव, तद्रूपाणि वस्तूनि परिच्छेदविशेषा अध्ययनवच्चूलावस्तूनि ।। [सू० ३७९] चउव्विहे कव्वे पन्नत्ते, तंजहा-गजे, पजे, कत्थे, गेये । [टी०] उत्पादपूर्वं हि काव्यमिति काव्यसूत्रम्, कण्ठ्यं चैतत्, नवरं काव्यं ग्रन्थः, गद्यम् अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत्, पद्यं छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायां साधु कथ्यं ज्ञाताध्ययनवत्, गेयं गानयोग्यम्, इह गद्य-पद्यान्तर्भावेऽपीतरयो: कथा-गानधर्मविशिष्टतया विशेषो विवक्षित इति । [सू० ३८०] णेरतिताणं चत्तारि समुग्घाता पन्नत्ता, तंजहा-वेयणासमुग्घाते, कसायसमुग्घाते, मारणंतियसमुग्धाते, वेउव्वियसमुग्घाते । एवं वाउकाइयाण वि। [टी०] अनन्तरं गेयमुक्तम्, तच्च भाषास्वभावत्वात् दण्ड-मन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधर्म्यात् समुद्घातसूत्रे सुगमे च, नवरं समुद्धननं समुद्घात: शरीराद् बहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घात:, कषायैः समुद्घातः, मरणमेवान्तो मरणान्त: तत्र भवो मारणान्तिकः, स एव समुद्घातः, वैक्रियाय समुद्घात: इति विग्रहा इति । [सू० ३८१] अरहतो णं अरिट्टनेमिस्स चत्तारि सता चोद्दसपुव्वीणमजिणाणं

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432