Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 429
________________ ४१२ यत्र स क्षीरोदः पञ्चमः, घृतोदः षष्ठः, कालोद-पुष्करोद-स्वयम्भुरमणा उदकरसा:, शेषास्तु इक्षुरसा इति । __[सू० ३८५] चत्तारि आवत्ता पन्नत्ता, तंजहा-खरावत्ते, उन्नतावत्ते, गूढावत्ते, आमिसावत्ते । एवामेव चत्तारि कसाया पन्नत्ता, तंजहा-खरावत्तसमाणे कोधे, उन्नत्तावत्तसमाणे माणे, गूढावत्तसमाणा माया, आमिसावत्तसमाणे लोभे १॥ खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेति णेरइएसु उववजति, उन्नतावत्तसमाणं माणं एवं चेव, गूढावत्तसमाणं मातमेवं चेव, आमिसावत्तसमाणं लोभमणुपविट्टे जीवे कालं करेति नेरइएसु उववजति २॥ [टी०] अनन्तरं समुद्रा उक्तास्तेषु चावर्ता भवन्तीत्यावर्तान् दृष्टान्तान् कषायांश्च तद्दार्टान्तिकानभिधित्सुः सूत्रद्वयमाह, सुगमं चैतत्, नवरं खरो निष्ठरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावर्त्तः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्त्तः, उन्नत: उच्छ्रितः, स चासावावर्त्तश्चेति उन्नतावर्त्तः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावर्त्तश्चेति गूढावर्त्तः, स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेर्वा, आमिषं मांसादि, तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात्, पत्र-तृणादिवस्तुन इव मनस उन्नतत्वारोपणात्, अत्यन्तदुर्लक्षस्वरूपत्वात्, अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति । इयं चोपमा प्रकर्षवतां कोपादीनामिति तत्फलमाह-खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते- णेरइएसु उववज्जइ त्ति । [सू० ३८६] अणुराधानक्खत्ते चउतारे पन्नत्ते । पुव्वा आसाढा एवं चेव। उत्तरा आसाढा एवं चेव । [टी०] नारका अनन्तरमुक्ताः, तैश्च वैक्रियादिना समानधर्माणो देवा इति

Loading...

Page Navigation
1 ... 427 428 429 430 431 432