Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३९६
सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो मध्वादिभृतः, द्वितीये भङ्गे तुच्छो रिक्तः, तृतीये तुच्छ: अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञान:, पुरुषस्तु पूर्णो जात्यादिभिर्गुणैः, पुनः पूर्णो ज्ञानादिगुणैरिति, अथवा पूर्णो धनेन गुणैर्वा पूर्वं पश्चादपि तै: पूर्ण ए[वेत्ये]वं शेषा अपि २ ।
पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्टृणामिति पूर्णावभासीत्येकः, अन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयोजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३ । पुरुषस्तु पूर्णो धन-श्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तु तुच्छो धन - श्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४।
तथा पूर्णो नीरादिना पुन: पूर्णं पुण्यं वा पवित्रं रूपं यस्य स तथेति प्रथमः, द्वितीये तुच्छं हीनं रूपम् आकारो यस्य स तुच्छरूप:, एवं शेषौ ५ । पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति, द्वितीयभने तुच्छरूप: कारणात् त्यक्तलिङ्ग: सुसाधुरेवेति, तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिः, चतुर्थो ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६।
तथा पूर्णस्तथैव, अपिस्तुच्छापेक्षया समुच्चयार्थः, एक: कश्चित्, प्रियाय प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः, तथा अपदलम् अपशब्दं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदल: अवदलति वा दीर्यत इत्यवदनः आमपक्वतयाऽसार इत्यर्थः, तुच्छोऽप्येवमिति ७ । पुरुषो धन - श्रुतादिभिः पूर्णः, प्रियार्थः कश्चित् प्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८ ।
चत्तारीत्यादि सुगमानि पूर्णोऽपि जलादेर्विष्यन्दते श्रवति, इह तुच्छ: तुच्छजलादिः स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तु पूर्णोऽप्येको विष्यन्दते धनं ददाति श्रुतं वा, अन्यो नेति, तुच्छोsपि अल्पवित्तादिरपि धन- - श्रुतादि विष्यन्दतेऽन्यो नैवेति १० ।
तथा भिन्नः स्फुटित:, जर्जरितो राजीयुक्तः, परिश्रावी दुष्पक्वत्वात् क्षरकः,

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432