Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 419
________________ ४०२ चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-मणजोगी, वइजोगी, कायजोगी, अजोगी। अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-इत्थिवेदगा, पुरिसवेदगा, णपुंसकवेदगा, अवेदगा। अहवा चउब्विहा सव्वजीवा पन्नत्ता, तंजहा-चक्खुदंसणी अचक्खुदंसणी ओहिदंसणी, केवलदंसणी । अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-संजता, असंजता, संजतासंजता, णोसंजता णोअसंजता णोसंजतासंजता । [टी०] यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादय: काययोगिन एकेन्द्रिया अयोगिनो निरुद्धयोगा: सिद्धाश्चेति । अवेदकाः सिद्धादयः। चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनम्, तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः स्पर्शनादि, तदर्शनवन्त एकेन्द्रियादय इति । संयता: सर्वविरता:, असंयता अविरताः, संयतासंयता देशविरता:, त्रयप्रतिषेधवन्त: सिद्धा इति । [सू० ३६६] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमित्ते णाममेगे अमित्ते । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते णाममेगे मित्तरूवे, चउभंगो । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मुत्ते णाममेगे मुत्ते, मुत्ते णाममेगे अमुत्ते [ह्र = ४] । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मुत्ते णाममेगे मुत्तरूवे ह्व [= ४] । [टी०] जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतु:सूत्र्याऽऽह- चत्तारीत्यादिः, स्पष्टा चेयम्, नवरं मित्रमिहलोकोपकारित्वात् पुनर्मित्रं परलोकोपकारित्वात् सद्गुरुवत्, अन्यस्तु मित्रं स्नेहवत्त्वादमित्रः परलोकसाधनविध्वंसात् कलत्रादिवत्, अन्यस्त्वमित्र: प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपकारकत्वादविनीतकलत्रादिवत्,

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432