Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४०१
तथा विनयो गुरुशुश्रूषा, स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपि चकार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति ।
अनाचार्यकं कर्म्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म्म, नित्यव्यापारस्तु शिल्पमिति, कर्म्मणो जाता कर्म्मजा, अपिच - कर्माभिनिवेशोपलब्धकर्म्मपरमार्था कर्म्माभ्यास-विचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, हैरण्यक - कर्षकादीनामिवेति ।
परिणाम: सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्म्म:, स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपिच- अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, अभयकुमारादीनामिवेति ।
तथा मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्द्देश्यस्य रूपादेः अव इति प्रथमतो ग्रहणं परिच्छेदनमवग्रहः, स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा, प्रक्रान्तार्थविशेषनिश्चयोऽवायः, अवगतार्थविशेषधरणं धारणेति ।
तथा अरञ्जरम् उदकुम्भो अलञ्जरमिति यत् प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरज्ञ्जरोदकं हि सङ्क्षिप्तं शीघ्रनिष्ठं चेति, विदरो नदीपुलिनादौ जलार्थो गर्त्तः, तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमल्पमल्पं स्यन्दते, अत एव च क्षिप्रमनिष्ठितं चेति, सरउदकसमाना तु विपुलत्वाद् बहुजनोपकारित्वादनिष्ठितत्वाच्च प्राय: सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुन: सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति ।
[सू० ३६५ ] चउव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा - णेरइता, तिरिक्खजोणिया, मणुस्सा, देवा ।

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432