Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
३९९
स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्त: पादादिः स्तब्धो जात:, श्लेषणता श्लेषणया वा यथा पादमाकुञ्च्य स्थितो वातेन तथैव पादो लगित इति ।
[सू० ३६२] चउव्विहे कम्मे पन्नत्ते, तंजहा-सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नाम० ह्व [= ४] ।
चउव्विहे कम्मे पन्नत्ते, तंजहा-सुभे णाममेगे सुभविवागे, सुभे णाममेगे असुभविवागे, असुभे नाममेगे सुभविवागे, असुभे नाममेगे असुभविवागे।
चउब्विहे कम्मे पन्नत्ते, तंजहा-पगडीकम्मे, ठितीकम्मे, अणुभावकम्मे, पदेसकम्मे ।
[टी०] उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाहचउव्विहेत्यादि सूत्रत्रयं व्यक्तम्, नवरं क्रियत इति कर्म ज्ञानावरणीयादि, तत् शुभं पुण्यप्रकृतिरूपं पुनः शुभं शुभानुबन्धित्वात् भरतादीनामिव । शुभं तथैव, अशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव । अशुभं पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिर्जरावतां गवादीनामिव । अशुभं तथैव, पुनरशुभमशुभानुबन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकम्, यत्तु बद्धं शुभत्वेन सङ्क्रमकरणवशात्तूदेत्यशुभत्वेन तद् द्वितीयम्, भवति च कर्मणि कर्मान्तरानुप्रवेश:, सङ्क्रमाभिधानकरणवशाद्, उक्तं चमूलप्रकृत्यभिन्ना: सङ्क्रमयति गुणत उत्तरा: प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसानप्रयोगेण ॥ [ ] इति । तथा मतान्तरम्मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥ [ ] त्ति यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयम्, चतुर्थं प्रतीतमिति । तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ज्ञेयमिति ।।
[सू० ३६३] चउव्विहे संघे पन्नत्ते, तंजहा-समणा, समणीओ, सावगा, साविगाओ।

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432