Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 415
________________ ३९८ आत्मना संचेत्यन्ते क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्याः हास त्ति हासाद् भवन्ति, हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं ‘यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्यामः' इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितम्, देवतया च हासेन तद्रूपमावृत्य क्रीडितम्, अनागच्छत्सु च क्षुल्लकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि याचित्वा तस्यै दत्तम्, तया तु ते दर्शिता इति । प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्। विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषित:, तं च देवता किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति । पृथग् भिन्ना विविधा मात्रा [हासादिवस्तुरूपा येषु ते पृथग्विमात्रा], तया इत्येतल्लुप्ततृतीयैकवचनं पदं दृश्यम्, तथाहि-हासेन कृत्वा प्रद्वेषण करोतीत्येवं संयोगाः, यथा सङ्गमक एव विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति । तथा मानुष्या हासात्, यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता, विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति । प्रद्वेषाद्यथा गजसुकुमारः सोमिलब्राह्मणेन व्यपरोपित: । विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्मपरीक्षार्थं लिङ्गिनोऽन्त:पुरे धर्ममाख्यापिता: क्षोभिताश्च, साधवस्तु क्षोभितुं न शकिता इति । कुशीलम् अब्रह्म, तस्य प्रतिषेवणं कुशीलप्रतिषेवणम्, तद्भाव: कुशीलप्रतिषेवणता उपसर्गः, कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः, अथवा कुशीलप्रतिषेवणयेति व्याख्येयम्, यथा सन्ध्यायां वसत्यर्थं प्रोषितस्येालोर्गृहे प्रविष्टः साधुश्चतसृभिरीालुजायाभिर्दत्तावास: प्रत्येकं चतुरोऽपि यामानुपसर्गितो न च क्षुभित:। __तथा तैरश्चा भयात् श्वादयो दशेयुः, प्रद्वेषाच्चण्डकौशिको भगवन्तं दष्टवान्, आहारहेतोः सिंहादयः, अपत्य-लयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति । तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षणि रज: पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षणि गले वा मांसाङ्कुरादि जातं घट्टयतीति १, प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरत: प्रपतनात् दु:खमुत्पद्यते, स्तम्भनता

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432