Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 414
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या, जर्जरितं छेदादिप्राप्त्या, परिश्रावि सूक्ष्मातिचारतया, अपरिश्रावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्म्म- धर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । ३९७ तथा मधुनः क्षौद्रस्य कुम्भो मधुकुम्भः, मधुभृतं मध्वेव वा पिधानं स्थगनं यस्य स मधुपिधानः, एवमन्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव हिययमित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं मनः अपापम् अहिंस्रमकलुषम् अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम् अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत् सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधर्म्यादिति १४ । [सू० ३६१] चउव्विहा उवसग्गा पन्नत्ता, तंजहा - दिव्वा, माणुसा, तिरिक्खजोणिया, आतसंचेयणिज्जा १ । दिव्वा उवसग्गा चउव्विहा पन्नत्ता, तंजहा -हासा, पओसा, वीमंसा, पुढोमाता २ । माणुसा उवसग्गा चउव्विधा पन्नत्ता, तंजहा -हासा, पओसा, वीमंसा, कुसीलपडिसेवणया ३ । तिरिक्खजोणिया उवसग्गा चउव्विहा पन्नत्ता, तंजहा - भता, पदोसा, आहारहेउं, अवच्चलेणसारक्खणया ४ । आतसंचेयणिज्जा उवसग्गा चउव्विहा पन्नत्ता, तंजहा घट्टणता, पवडणता, थंभणता, लेसणता ५ । [टी०] अत्र च चतुर्थ: पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय चउव्विहा उवसग्गेत्यादि सूत्रपञ्चकमाह, कण्ठ्यं चेदम्, नवरमुपसर्जनान्युपसृज्यते वा धर्मात् प्रच्याव्यते जन्तुरेभिरुपसर्गा बाधाविशेषाः, ते च कर्तृभेदाच्चतुर्विधाः । -

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432